SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ २९२ ब्याश्रयमहाकाव्ये [मूलराजः] निःस्यन्दिस्वेदनिस्यन्दात्फेनाभिस्यन्दतो हयैः । विस्यन्दिभिरिवाम्भोदैः परिस्यन्दिन्यभून्मही ॥ १५२ ॥ १५२. विस्यन्दिभिर्वर्षकैरम्भोदैरिव हयैः कृत्वा मही परिस्यन्दिन्यााभूत् । कुतः । निःस्यन्दी श्रमवशात्स्रवणशीलो यः स्वेदनिस्यन्दो धर्मप्रवाहस्तस्मात् । फेनाभिस्यन्दतः अमेणैव मुखफेनस्रवणाच्च । क्षुब्धसिन्धौ बलैः स्मानुष्यन्देते झषकाम्भसी। यादोर्णसी इव स्मानुस्यन्देते मन्दराद्रिणा ॥ १५३ ॥ १५३. बलैः सैन्यैः क्षुब्धसिन्धौ विलोडितायां जम्बुमालीनद्यां झषकाम्भसी ह्रस्वमत्स्यजातिजले अनुष्यन्देते स्म प्रसरतः स्म तटान्यतिचक्रमतुरित्यर्थः । यथा मन्दराद्रिणा मेरुणा क्षुब्धसिन्धौ विलो. डितेब्धौ यादोर्णसी जलजन्तुजातिजले अनुस्यन्देते स्म प्रसृते॥ विस्यन्दिदन्त्यविष्कन्तमदेविस्कन्तृभिर्भुवः । विस्कन्नः सर्वतो रेणु व विस्कन्नवान् दृशः ॥ १५४ ॥ १५४. रेणुरुपशान्तत्वादृशो नैव विस्कन्नवान्न व्याप्नोद्यतो विस्यन्दिनो मदक्षरणशीला ये दन्तिनस्तेषामविष्कन्तारोशुष्यन्तो ये मदास्तैः कर्तृभिः सर्वतो विस्कन्न आर्टीकरणेन व्याप्तः । किंभूतैः । बहुलत्वाद्भुवो विस्कन्तुभिर्व्यापकैः ।। निःष्यन्दैः निःस्यन्दि । अभिष्यन्दि अभिस्यन्दतः । अनुष्यन्देते अनुस्यन्देते । परिष्यन्द्यते परिस्यन्दिनी । निष्यन्दः निस्यन्दात् । विष्यन्दि विस्यन्दिभिः । इत्यत्र “निरभ्यनोश्च" [५०] इत्यादिना वा षः ॥ अप्राणिनीति किम् । १ बी 'शाच्छ्व. २ बी स्मात्तथा फे'. ३ ए बी सी डी नव. ४ बी विष्कन्न ५ बी विष्कन्न ६ बीन्दते. ७ बी ध्यन्द नि०. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy