________________
२९३
[है० २.३.५१.] तृतीयः सर्गः। विस्यन्दिदन्ति । पर्युदासोयं न प्रसज्यप्रतिषेधस्तेन यत्र प्राणी चाप्राणी च कर्ता स्यात्तत्राप्राण्याश्रयो विकल्पो भवति न तु प्राण्याश्रयः प्रतिषेधः । अनुष्यन्देते झषकाम्भसी अनुस्यन्देते यादोर्णसी ॥
विष्कन्तु विस्कन्त्तृभिः । इत्यत्र "वेः" [५१] इत्यादिना पो वा ॥ अक्तयो. रिति किम् । विस्कन्नः । विस्कन्नवान् ॥
परिष्कण्णापरिस्कन्नान्वृषानिःष्फुलनिःष्फुरान् । निःस्फुला निःस्फुरा गोपा निन्युःक्ष्मां निष्फुरत्तृणाम् १५५ १५५. निःस्फुलाः संहता निःस्फुराः स्फुरणान्विता गोपा गोपाला वृषान्निष्फुरत्तॄणामुल्लसच्छष्पां क्षमा चारणार्थ निन्युः । किंभूतान् । परिष्कण्णं श्रमोद्भवः समन्ताच्छोप: पातो वा तेनापरिस्कन्नानपरिगतान्बलिष्ठत्वेन भूरिमार्गगमनेनाप्यश्रान्तानत एव निःफुलनिःस्फुरान् विशेषणकर्मधारये संहतान्सतेजस्कांश्च ।
निष्फुलनिस्फुरद्वातैर्निस्फुलद्विष्फुरवजाः ।
विस्फुरद्विष्फुलच्छायाः पतया विस्फोलिता रथाः॥१५६॥ १५६. रथाः पतया श्रेण्या विस्फोलिताः संचायिता: संस्थापिता इत्यर्थः । किंभूताः । निष्फुलन्तः संहतीभवन्तो निस्फुरन्तो विचरन्तश्च ये वातास्तैः कृत्वा निस्फुलन्तोन्योन्यं संहतीभवन्तो विस्फुरन्तश्चञ्चला ध्वजा येषु ते। अत एव विस्फुरन्त्यश्चलन्त्यो विस्फुलन्त्यः संहतीभवन्त्यश्छाया ध्वजसंबन्धिन्यो येषां ते ॥
१ ए निःस्फरा'. २ सी फुर.
१ बी °णी यत्र चा. २ डी स्कन्नवा'. ३ ए सी डी संहिता . ४ ए निष्पुर'. ५ ए सी डी रिकन्ना. ६ बी निष्फुर।. ७ ए सी डी स्फुरन्तो'. ८ डी श्च चल.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org