SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ [है० २.३.४९.1 तृतीयः सर्गः । २९१ व्यषहिष्ट तटीपातं पङ्क पर्यषहिष्ट च । न्यपहिष्ट पय शोषं व्यसहिष्ट न किं नदी ॥ १४९ ॥ १४९. नदी जम्बूमाली तटीपातं सैन्यसंमर्दजन्यं तीरभ्रंशं व्यषहिष्ट । तथा वस्त्रादिधावनविगाहनादेः पकं पर्यषहिष्ट । तथा पानादेः पयःशोषं न्यषहिष्ट । अतश्च तटीपातादिसहनाकिं न व्यसहिष्ट ॥ न न्यसायातपः कैश्चित्पर्यसाहि तृषा न च । पर्यष्कारि तरुच्छाया पर्यस्कारि सरिच यत् ॥ १५० ॥ १५०. स्पष्टः । किं तु पर्यस्कारि समाश्रयणेनालंकृता ॥ पर्यष्टौत् पर्यस्तौत् । न्यष्टौत् न्यस्तौत् । व्यष्टौत् व्यस्तौत् । पर्यष्वक्त पर्यस्खत । न्यष्वत न्यस्वत । व्यष्वत व्यस्वत । पर्यषीव्यत् पर्यसीव्यत् । न्यषीव्यत् न्यसीव्यत् । व्यपीव्यत् व्यसीव्यत् । पर्यषहिष्ट पर्यसाहि । न्यषहिष्ट न्यसाहि । व्यपहिष्ट व्यसहिष्ट । पर्यष्कारि पर्यस्कारि । इत्यत्र "स्तुस्वाश्चाटि न वा" [४९] इति वा पः॥ विष्यन्दिमदनिःष्यन्दैः कराभिष्यन्दिशीकरैः । सल्लक्या रसनिष्यन्दः स्म परिष्यन्द्यते गजैः ॥ १५१ ॥ १५१. गजैः सल्लक्या गजप्रियतरुविशेषाद्रसनिष्यन्दो रसप्रवाहः परिष्यन्द्यते स्म चर्वणेन स्राव्यते स्म । कीदृशैः । विष्यन्दी प्रसृमरो मदनिःष्यन्दो मदप्रवाहो येषां तैस्तथा करेभ्यः शुण्डाभ्योभिष्यन्दिनः स्रवणशीलाः शीकरा वमर्थवो येषां तैः ॥ १ बी न्यस्याह्या. २ डी रि स. १ बी र्दजं ती. २ सी त । व्यष्व. ३ सीट ! प. ४ ए सी डी षाणां रस'. ५ डी दो मद. ६ ए सी न श्राव्य. ७ बी नि:स्यन्दो. ८ ए सी डी °नः श्रव. ९ ए सी थतो ये . डी °थतौ ये. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy