SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ २९० व्याश्रयमहाकाव्ये [ मूलराजः] कृताः। विष्किरैः । इत्यत्र “असोड" [८] इत्यादिना षः ॥ असोडेति किम् परिसोढव्यम् । अनिसोढव्यम् । विसोढम् । मा निसीषिवः । मा विसीषहः ॥ क्ष्मां पर्यष्टौत्तृणैरद्भिर्यष्टौद्यष्टोत्तथेन्धनैः। विभुयाँ तां च पर्यस्तौन्यस्तौद्यस्तोत्परिच्छदः॥ १४६ ॥ १४६. विभुर्या प्रशस्यतृणजलेन्धनामवोचत्तां मां पृथ्वी परिच्छदोपीत्यर्थः । एतेन परिच्छदस्य च्छन्दोनुवर्तित्वेन स्वामिन्यात्यन्तिकी भक्तिरुक्ता ॥ ओजो व्यष्वत मुत्पर्यष्वत न्यष्वत विक्रमः । व्यस्खक्त धीर्यस्खल श्रीन्पर्यस्खल न श्रमः ॥ १४७॥ १४७. प्रस्तावात्सैन्यावासने सति नृन्सैनिकान् श्रमो न पर्यष्व(स्व?)त नालिङ्गन्नदीनानादिना व्यपगत इत्यर्थः । अत एव बलहर्षोत्साहबुद्धिशोभा नृनालिङ्गन्नित्यर्थः ॥ क्ष्मां व्यपीव्यन्यपीव्यद्वाः पर्यषीव्यदरी रजः। व्यसीव्यन्यसीव्यत्वं पर्यसीव्यदिशश्च यत् ॥ १४८॥ १४८. यद्रजोत्यन्तं निविडत्वेन द्रून् व्यसीव्यत्प्रोतवानिव व्याप्नोदित्यर्थः । तथा खं न्यसीव्यदिशश्च पर्यसीव्यत्तद्रज: क्ष्मां व्यषीव्यत् । तथा वा: जातावेकवचनम् । जलानि न्यषीव्यत्तथा दरीर्गर्ताः पर्यषीव्यत् । सैन्ये चलति तुरगादिखुरोत्खातं यद्रज अर्ध्वमुच्छलितमासीत्तत्सैन्य उषितेधः पपातेत्यर्थः । योप्युच्चैस्तमपदारूढः स्यात्सोपि 'उच्चैश्चटितस्यावश्यं पातः' इति लोकोक्तेरधः पततीति ॥ १ सी व्यद्वाः. १ ए सी विष्करैत्य. डी विष्करै'. २ सी जोत्यं नि. ३ सी खं व्यसी'. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy