________________
[है० २.३.४२.] तृतीयः सर्गः ।
२८५ परानन्यानपि करम्भमवाषिष्वणदभोजयत् । एतेनास्यात्मभरित्वमपास्तम् ॥
योद्रौ व्यषिष्वणज्जायां स्वयं चैलामवावणत् ।
सोवस्खनन्करी बद्धो व्यष्वणच्छष्पपूलिकाः॥१३५ ॥ १३५. यः करी अद्रौ विन्ध्यशैले जायां करेणुकामेला सुगन्धितरुविशेष व्यषिष्वणद्भोजितवान् । स्वयं च य एलामवाष्वणद्भुत । स्वभार्यान्वितो य एलां भुक्तवानित्यर्थः । एतेनास्यातिसुखितत्वमुक्तम् । स करी बद्ध आलानस्तम्भे निगडितोवस्खनन्नवबद्धत्वेन बन्धासहत्वादाक्रन्दन्सन् शष्पपूलिका नवतृणपूलान् व्यष्वणदभुत । एतेन सुखदुःखावस्थे महतामपि भवत इत्युक्तम् ॥
उष्ट्रान्विस्वनतो भाराद्विषण्णानौष्ट्रिको जनः ।
न्यषीपदनिषिषमूनिषसाद न तु स्वयम् ॥ १३६ ॥ १३६. औष्ट्रिको जन उष्ट्राच्यषीषददुपावेशयत् । किंभूतान्सतः । भाराद्धेतीविषण्णान् श्रान्तानत एव निषिषत्सूनुपवेष्टुमिच्छून् । तथा विस्वनत आरटत: । न तु स्वयं विषसादोष्ट्रसंबन्धिभि रावतारणचार्यानयनादिभिरनेकव्यापारैर्व्यापृतत्वान्न पुनरात्मना भूम्यामुपाविशत् । एतेनौष्ट्रिकाणामुष्ट्रेवतिहितत्वोक्तिः ॥
न्यषीदत्प्रतिसन्नोभॊम्बामपि प्रत्यसीषदेत् ।
साप्यप्रतिसिषत्सुं तत्पितरं प्रत्यसीसदत् ॥ १३७ ॥ १३७. प्रतिसन्नः श्रान्तोर्नो बालको न्यषीददुपाविशत् । अम्बा
? बी दन् । १ सी मुक्त । स्व.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org