SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ २८६ व्याश्रयमहाकाव्ये [मूलराजः] मपि मातरमपि प्रत्यसीषददुपवेशितवान् । साप्यम्बाप्यप्रतिसिषत्सुमनुपविविलु तत्पितरमर्भजनकं प्रत्यसीसदत् ॥ श्रमात्पतिसिसत्सन्तीः परिष्वक्ताब्जिनीदलाः । योषितोभ्यध्वजन्तेशाः प्रतिषिष्वङ्गवोम्भसि ॥ १३८ ॥ १३८. श्रमात्प्रतिसिसत्सन्तीरुपविविक्षुरतिश्रमातुरा इत्यर्थः । अत एव परिष्वक्ताजिनीदला: श्रमसन्तापोपर्शमायाश्लिष्टपद्मिनीपत्रा योषित ईशा भर्तारोभ्यष्वजन्तालिङ्गन्ति स्म यतोम्भसि जले प्रतिषिवङ्गवो योषितः सम्बद्धाः कर्तुमिच्छवः । सन्तप्तत्वादात्मना सह सिस्नपयिषव इत्यर्थः ॥ येभिषस्वजिरे दूर्वा पर्यषेवन्त चान्तिकम् । मुदाश्वांस्तेभ्यषस्वञ्जन्मन्दुरापरिषेवकान् ॥ १३९ ॥ १३९. ये स्थानपाला दूर्वामभिषस्वजिरे भक्षणायाश्वैः सहाभिसंबध्नन्ति स्म । ये चान्तिकमश्वानां समीपं मक्षिकाभक्षणाद्युपद्रवोपनयनस्थानशुचीकरणादिशुश्रूषया पर्यषेवन्त शिश्रियुस्ते मन्दुरापरिपेवानश्वशालासंश्रविणोश्वान्मुदा काभ्यषध्वञ्जन्समयोजेयन् हृष्टी चक्रुरित्यर्थः । ये हि येषां कृते भोज्यं मीलयन्ति भक्तत्वेनान्तिकं सेवन्ते च ते भृत्यास्तान्स्वामिनो विनीतत्वेन हर्षयन्ति ॥ कश्चिन्यषेवतैधांसि चुल्ली परिषिषेविषुः । पिष्टं निषेवते स्मान्यो मण्डकानिषिषेविषुः ॥ १४०॥ १४०. कश्चित्कान्दविकचल्लीमन्तिकां परिषिपेविषुः संधुक्षणेन १ बी न्ती प. १ बी शमया. २ सी ध्वक्षवो'. ३ बी वान. ४ डी कान् शा. ५ ए जन्. ६ सी स्तामि. ७ ए श्शुली--प. बी चलीं प. सी °श्चली--प. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy