SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ २८४ व्याश्रयमहाकाव्ये [ मूलराज : ] नपाकृत्य नदीनिकट द्रुमानाश्रिता इत्यर्थः । तथा परेवष्टम्भं चित्तस्थैर्यमवष्टभ्याश्रित्य तटीरवतष्टम्भुश्छायायुपभोगायाश्रिताः । अपायबहुले हि नदीतटे चित्तावष्टम्भेनैवावस्थीयते ॥ सादिवर्ग उपष्टब्ध उपस्तब्धांस्तुरङ्गमान् । अवातस्तम्भदावासपार्श्वेव स्तब्धकन्धरान् ॥ १३३ ॥ १३३. उपलब्ध ऊर्जस्वी सादिवर्गोश्ववारौघस्तुरङ्गमानावासपार्श्वे स्वाश्रयसमीपेवातस्तम्भदाश्रयं ग्राहितवान् । कीदृशान् । उपस्तब्धाबलिष्ठांस्तथावस्तब्धकन्धरानुन्नतीवान् ॥ विष्टब्ध । वितष्टम्भुः । व्यष्टुम्भन् । इत्यत्र “अडप्रति" [४१] इत्यादिना षः ॥ अडप्रतिस्तब्धनिस्तब्ध इति किम् । व्यतस्तम्भन् । प्रतिस्तब्धाः । निस्तब्धाः ॥ आश्रये । अवष्टभ्य | अवतष्टम्भुः । अवाष्टनन् ॥ ऊर्ज (र्जे?) । अवष्टम्भम् ॥ अविदूरे । अवष्टब्ध । इत्यत्र " "अवाच्चा [ ४२ ] इत्यादिना षः ॥ चकारोड इत्यस्यानुकर्षणार्थौनुक्तसमुच्चयार्थश्च । तेनोपष्टब्ध इत्यत्रोपादपि । उपवादित्यकृत्वा चकारेण सूचनमनित्यार्थम् । तेनोपस्तब्धानित्यपि ॥ आश्रयादिष्विति किम् । अवस्तब्ध ॥ अड इत्येव । अवातस्तम्भत् ॥ अवषिष्वणिषुः कोपि विषष्वाण करम्भकम् । त्वं विष्वणवण त्वं चेत्यवापिष्वणत्परान् ॥ १३४ ॥ १३४. अवषिष्वणिपुर्भोक्तुमिच्छुः सशब्दं बुभुक्षुर्वा भुञ्जान: कंचिच्छन्दं चिकीर्षुर्वा कोपि भटः करम्भकं दधिसक्तन्विषष्वाण बुभुजे सशब्दं भुक्तवान्वा भुञ्जानं: कंचिच्छन्दं चक्रे वा । एवमन्यत्राप्यर्था आविर्भावनीयाः । श्रमतप्ताङ्गा हि बुभुक्षवः शीतत्वात्करम्भं भुञ्जते । तथा त्वं विष्वण भुङ्ग त्वं चावष्वण भुङ्गेत्येवंप्रकारेण 3 १ ए सी. आश्रिया.. २ वी 'नः किंचि. ३ सी भुव त्वं. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy