________________
२७९
[है० २.३.३८.] तृतीयः सर्गः। स्यात् । सिसिक्षतः । एवकारः षण्येव णिस्तोरिति विपरीतनियमनिवृत्त्यर्थस्तेनेहापि भवति । असीषिचत् । तुष्टाव । षत्वं किम् । सुषुप्सन्तम् ॥ नकारः किम् । व्यतिसुषुपिषे । नात्र सन् किं तु परोक्षा से ॥ कथमधीषिषन् । षणि निमित्ते धातोः षत्वनियम उक्त इह तु सन एव द्विरुक्तस्य पत्वं न धातोरिति न प्रतिषेधः। अत्र इंदुं दुं शुं श्रृं गतौ ज्ञानेर्थे इण्क गतौ वा। अज्ञानेर्थे हीणो गमादेशः स्यात् ॥ सोषुपिषमाण इत्यत्र यङि पत्वं पश्चात्सन्निति न प्रतिषेधः । येषां तु दर्शने द्विस्वेपि पुनः सनि द्विरुक्तिस्तन्मते सुसोषुपिषमाण इत्यत्र पणि सुशब्दास्परस्य सस्य षत्वं न भवत्येव ॥ असिषक्षयिषत् सिसञ्जयिषुः । इत्यत्र "सजेर्वा" [३८] इति वा पः ॥
हयाननभिषुण्वन्तोभ्यषुण्वन्केचिदम्भसि । धर्माभिषयमाणांश्चाभ्यषुवन्सुहृदो मुहुः ॥ १२२ ॥ १२२. केचिदश्वपाला: शोभनावान्वितत्वेन शोभनं हृद्वक्षो येषां तान्सुहृदो हयान्धर्माभिषूयमाणानातपेनाक्रम्यमाणान्सतो मुहुर्वारधारमम्भसि जलेभ्यषुण्वन्ननपयन् । अन्तर्भूतणिगर्थोत्र सुम् । किंभूताः सन्तोनभिषुण्वन्तो गाढजलप्रहारैरपीडयन्त: । एतेन स्नापनकौशलोक्तिः । स्वयमसान्तो बा । एतेन चैषामात्मनोपि हयेषु बाढं वात्सत्यमुक्तम् । तथा सुहृदो मित्राणि धर्माभिषूयमाणानत एव हयन्तीति हयास्तान लाम्यतः सतोम्भस्यभ्य॑षुवंश्च क्षिप्तवन्तश्च ।।
कर्माभिष्टुत्यमभ्यस्यन्येभिष्यत्यनिले श्रमम् ।
भृत्यांस्ताननभिष्टोभान्स्वामिनोभ्यष्टवन्मुदा ॥ १२३ ॥ १२३. अनिले श्रमं मार्गखेदमभिष्यति नदीशीकरोन्मिश्रत्वेना१ बी भ्यष्यन्ये'. २ ए सी भ्यष्टव'. १बी ज्ञानार्थे. २ ए सी °माणो इ. डी 'माणे इ. ३ बी यज्ञि प. ४ बीते नैषा. ५सी °मान. ६ सी भ्यश्च.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org