SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ २८० ब्याश्रयमहाकाव्ये मूलराजः] . तिशीतत्वादपनयति सति पुनर्नवीभूताङ्गत्वेनाभिष्टुयं प्रशस्यं कर्म क्रियां ये भृत्या अभ्यस्यन्समापयंस्तानभिष्टोभः स्तम्भो जाड्यं तेन रहितान् दक्षान्भृत्यान्स्वामिनो मुदाभ्यष्टुवन्प्रशशंसुः । भृत्या हि कर्मान्त एव प्रशस्यन्त इति नीतिः । यदुक्तम् । प्रत्यक्षे गुरवः स्तुत्याः परोक्षे मित्रबान्धवाः । कर्मान्ते भृत्यवर्गाश्च पुत्रा नैव मृताः स्त्रियः ॥ १ ॥ अभ्यष्टोभन्त दृष्याणि मां केप्यभिसुसूषवः । अभ्यसुमूषत्स्वामीति तं के चनाभ्यभूसवन् ॥ १२४ ॥ १२४. केपि भृत्याः क्ष्मामभिसुसूषवो दाहोपशमाय शीताम्भोभिः सेक्तुमिच्छवो दूष्याणि पटकुटीरभ्यष्टोभन्ताबनन् । दूष्यबन्धाभावे हि क्ष्मा सिक्ताप्यातपेन शुष्येत् । तथा के चन भृत्याः स्वाम्यभ्यसुसूषस्नातुमैच्छदिति हेतोस्तं स्वामिनमभ्यसूसवन स्नपितवन्तः ॥ शाखामभिसिसासन्तमभिसोमय्य सिन्धुरम् । महामात्रोभितुस्ताव ततः स्तम्भेभितुस्तुभे ॥ १२५ ॥ १२५. शाखामभिसिसासन्तं विनाशयितुमिच्छन्तं सिन्धुरमभिसोसूय्य शाखाभञ्जनायात्यर्थ प्रेर्य महामात्रो हस्तिपकोभितुस्ताव । अहो सिन्धुरस्य कीहक्सामर्थ्यमिति प्रशशंस । तत: स्तम्भे वृक्षप्रकाण्डेभितुस्तुभे बबन्ध । मदोत्कटतया बन्दुमशक्यं सिन्धुरमेवं स्तवनेन सान्त्वयित्वा स्तम्भे बद्धवानित्यर्थः । योपि महामात्रैः प्रधानं महामात्यादिः सोपि सिन्धुरतुल्यं दर्पिष्ठं बलिष्ठं रौद्रं च नृपादिमन्याये प्रवर्तमानं प्रेर्य स्तवनेन च विश्वास्य बध्नाति ॥ १ बी भ्यष्यन्स'. २ बी प्रसरय. ३ ए सी डी वन्धन्. ४ सी डी बद्भुम". ५ बी प्र. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy