SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये [ मूलराजः ] स्वापक्रियाव्यतिहारेण किमिति सुप्त इति । विभौ हि सोपुपिषमाणे भृत्यस्य स्वापोविनयहेतुत्वेनायुक्तः ॥ सोपुपिषमाणोपि कोपीनाज्ञामधीषिषन् । नासिषञ्जयिषच्चक्षुः सिसञ्जयिषुरिन्धनम् ॥ १२१ ॥ १२१. कोपि भृत्यः सुसोषुपिषमाणोपि श्रान्तत्वेनात्यर्थं स्वतुमि - च्छन्नपि चक्षुर्नासिषञ्जयिषन्मेलयितुं नैच्छन्न सुप्त इत्यर्थः । यत इन्धनं सिसञ्जयिषुर्मेलयितुमिच्छन्मेलयन्नित्यर्थः । एतदपि कुत इत्याह । यत इनाज्ञामनेक ग्राहक सद्भावेनेन्धनं पञ्चाद्दुर्लभं भविष्यत्यतोधुनैव त्वया संग्राह्यमित्थंरूपं प्रभुनिदेशमधीषिषन् स्मर्तुमिच्छन्स्मरन्नित्यर्थः । एतेन भृत्यस्यात्यैन्तं स्वामिभक्तिरुक्ता || २७८ रूढारुष्टा । वपुष्ट्वम् । सूर्यार्चिष्टः । निष्टयानाम् । चतुष्टयम् । बहिष्टराम् । वपुष्टमाः । इत्यत्र “हस्वान्नामिनस्ति” [३४] इति षः ॥ ह्रस्वादिति किम् । सुदोस्त्वम् ॥ नामिन इत्येव । सुतेजस्ता ॥ निष्टत । इत्यत्र "निस:" [३५] इत्यादिना षः ॥ अनासेवायामिति किम् । पुनःपुनः करणे मा भूत् । द्विषन्निस्तापिनः ॥ जक्षुः । ऊषुः । इत्यत्र "घस्वसः " [३६] इति षः ॥ सुष्वापयिषवः । तुष्टृषुः । इत्यत्र “णिस्तोरेवा" [३७] इत्यादिना पः ॥ स्वदादिपर्युदासः किम् | आसिस्वादयिषवः । सिस्वेदयिषु । प्रोत्सिसाहयिषुः ॥ स्तौतिसाहचर्यात्स्वदादिपर्युदासेन सदृशग्रहणाच्च ण्यन्तानामपि षोपदेशानामेव ग्रहणम् । तथा च कृतत्वात्सकारस्य "नाम्यन्तस्था" [२. ३. १५ ] इत्यादिसूत्रेणैव सिद्धे नियमार्थं वचनम् । णिस्तोरेव षणि षत्वं नान्यस्य । तेनेह न १ एसी हि सुषपि डी हि सुपुपि २ सी 'वेनन्ध' ३ बी 'त्यन्तस्वा. ४ ए सी 'नामिनस्ति'. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy