________________
२७७
[है० २.३.३३.] तृतीयः सर्गः।
२७७ अथासर्गसमाप्ति सैन्यावासनां वर्णयति ।
सैनिकानां श्रमं जक्षुः सुष्वापयिषवो नु तान् । सिखेदयिष्विनांशूनासिस्वादयिषवो द्रुमाः ॥११८ ॥ ११८. द्रुमा: सैनिकानां श्रमं मार्गखेदं जक्षुरभक्षयन्नपनिन्युरि. त्यर्थः । किंभूताः सन्तः । सिस्वेदयिषवोत्युष्णत्वेन प्रस्वेदयितुमिच्छवो य इनांशवो रविकिरणास्तानासिस्वादयिषवः सान्द्रपत्रप्रकरेण भक्षयितुमिच्छवोपनयन्त इत्यर्थः । अत एव तान्सैनिकान्सुष्वापयिषवो नु शाययितुमिच्छव इव । ये हि सुष्वापयिषवो भृत्याः स्युस्तेपि पटकुटीबन्धनेन छायाकरणाद्रविकिरणान्निवारयन्तो मार्गश्रममपनयन्ति ॥
तुष्टषुर्वीचिनादैः किं प्रोत्सिसाहयिषुः किमु ।
वपुः सिसिक्षतो नागानयम्भोभिरसीषिचत् ॥ ११९ ॥ ११९. अङ्ग सिसिक्षतः सिस्नपयिषूनागानम्भोभिः कर्तृभिनंद्यसीषिचदनपयत् । कीहक्सती । वीचिनादैः कृत्वा किं तुष्टुंषुः किं नागान्स्तोतुमिच्छन्ती स्तुवैतीवेत्यर्थः । किमु किं वा प्रोत्सिसाहयिषुः श्रान्तसन्तप्तत्वात्स्नानार्थं प्रोत्सहमानान्नागान्प्रयोक्तुमिच्छुः प्रोत्साहयन्तीवेत्यर्थः । जनन्यादिरपि हि स्तुवैती प्रोत्साहयन्ती च बालकान्स्नपयति ॥
मुषुप्सन्तं न तुष्टाव कंचित्कोपीत्यतर्जयत् ।
किं सोषुपिषमाणे त्वं व्यतिसुषुपिषे प्रभौ ॥ १२० ॥ १२०. सुषुप्सन्तं शयितुमिच्छन्तं स्वपन्तमित्यर्थः । कंचिद्भत्यं कोपि भृत्यो न तुष्टाव कित्वतर्जयत् । कथमित्याह । प्रभौ स्वामिनि सोषुपिषमाणेत्यर्थ स्वप्नुमिच्छति किं त्वं व्यतिसुषुपिषे प्रभुसंबन्धि
१ डी 'टुवुः किं . २ °सी ती स्तुंव'. ३ बी डी वन्तीवे'. ४ बी सी डी वन्ती प्रो. ५ सी किं तु त. ६ सी किं तु व्य. ७ ए सी डी बन्धेस्वा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org