SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ २७४ याश्रयमहाकाव्ये [ मूलराजः ] कान् । परमे पदे तिष्ठन्ति परमेष्ठा दिवि स्वर्गे तिष्ठन्ति दिविष्ठा द्वन्द्वे परमेष्ठदिविष्ठा रामचन्द्रादयस्तेषामाजीन् रणान् ॥ दुःषेधाग्निष्ठमाञ्जिष्टदृष्टीन्बर्हिष्ठपाणयः । परिकारा अकुष्ठाङ्गा गजान्निन्युः सुषेधताम् ॥ ११३ ॥ ११३. परिकारा हस्तिपरिचारका गजान् सुषेधतां प्रशस्तगतितां निन्युः । यतो दुष्टः सेधो गतिर्येषां ते दुःषेधास्तथामौ तिष्ठन्त्यग्निष्ठा मौ शब्दे तिष्ठति मञ्जिष्ठा तया रक्ता माजिष्ठी अग्निष्ठानामिव माञ्जिष्ठी आरक्ता दृष्टिर्येषां ते तथा । ततो विशेषणकर्मधारयः । तान्मदोद्भेदाद्दुष्टगतीनारक्ताक्षांश्च । किंभूताः सन्तः । अश्वारूढत्वेनाकुष्ठमभूमिष्ठमङ्गं येषां ते । यद्वा । पादचारिणोपि हस्तिवेगगामित्वाफलप्रदानैराकाशस्था इव तथा बर्हिः ष्ठपाणयः पिच्छिकाहस्ताः । परिकारा हि पिच्छिकाहस्ता द्विधा हस्तिवेगजैत्राश्वारूढा हस्तिवेगजैत्रा: पादचारिणश्च । त उभयेपि गजायगा मदोद्रेकेण शीघ्रगं गजं पिञ्छिकाभीक्ष्णाच्छोटनैः खेदयित्वा मदं चोपशमय्य स्वभावगतिं नयन्तीति स्थितिः ॥ स्थपुटेष्वप्यनिःषेधैरदुःषन्धिपदैर्हयैः । रथाः सुषंधयो यान्तो निःपंधय इवावभुः ॥ ११४ ॥ ११४. रथा निःषंधय इव संधिरहिता इवाबभुः । यतः सुषंधयः सुष्टिसंधानाः । तथा हयैः कृत्वा यान्तः । किंभूतैः । अदुःपंधीनि गुल्फप्रदेशे दुष्टसंधानरहितानि पदानि पादा येषां तैः । एतेन सुलक्षणत्वोक्तिः । ε १ बी डी हिं: ठ° २ बी दुप १ बी सी 'रिवार" २ बी 'गति नि° ३ सी 'ततो त ४ ए सी डी 'रूढास्तेना ५ सी 'हिंष्ठ ६ ए सी डी 'निये'. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy