SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः । द्विष्टत्रिष्टेष्व पुगष्ठेष्वाम्बष्ठ्याम्बष्ठताजुषः । पयोशङ्कुष्ठकाङ्गुष्ठं भूमिष्ठापष्ठपत्तयः ॥ १११ ॥ [ है ० २.३.२९. ] १११. भूमौ तिष्ठन्ति भूमिष्ठा अप मार्ग परिहृत्य तिष्ठन्त्यपष्ठाश्च ये पत्तयस्ते गोष्ठेषु गोकुलेषु पयो दुग्धमपुः पिबन्ति स्म । कथम् । शङ्कौ शल्यास्त्रे तिष्ठन्ति शङ्कुष्ठा अज्ञाताः शङ्कुष्ठाः शङ्कुष्ठका न तथाशङ्कुष्ठकाः पयःपानव्यापृतत्वेनाप्रहरणा अङ्गीववयवे तिष्ठन्त्यङ्गुष्ठा अङ्गुल्यो यत्र पाने तत् । किंभूतेषु गोष्ठेषु । द्विष्ठत्रिष्ठेषु द्वयोः स्थानयोस्त्रिषु वा स्थानेषु तिष्ठत्सु । किंभूता: पत्तयः । अम्बायां मातरि तिष्ठन्ति “ड्यापो बहुलं नाम्नि " [ २.४.९९ ] इति हस्त्रे अम्बष्ठो मातृमुखः । तस्य भावः व्यणि आम्बष्ठयं तस्याम्बष्ठता । अम्बोपह्नवकर्ता तस्यायं कार्यभूतः अणि आम्बोपहवरूपो धर्मस्तत्र तिष्ठति " स्थाप" [५. १. १४१] इत्यादिना के आम्बष्टस्तस्य भावोपवस्तां जुषन्ते सेवन्ते ये ते धनुर्विद्यादि कलाकुशला इत्यर्थः ॥ २७३ अनम्बाष्टा असव्यष्ठकुन्तशेकुष्ठपाणयः । परमेष्ठदिविष्ठा जीन्पुञ्जिष्ठाः पथ्यकीर्तयन् ॥ ११२ ॥ ११२. अनम्बाष्टा अमातृमुखाः शस्त्रविद्यानिपुणा असव्यष्ठो दक्षिपार्श्वस्थः यः कुन्तः प्रासो येषां ते व्यष्टकुन्ताः शेकुः पक्षिविशेषस्तत्प्रकृतिध्वजोप्यभेदात् शेकुः । "न नृपूजार्थ” [ ७.१.१०८] इत्यादिना काभावः । तत्रस्थः पाणिर्येषां ते शेकुष्ठपाणयः । वामपादमोचकमध्यस्थान् महाभटत्वसूचकान् शेकादिजन्तूपलक्षितान्ध्वजान्वामहस्तेनष्टनन्त इत्यर्थः । विशेषणकर्मधारयेस व्यष्ठकुन्तशे कुष्ठपाणयोश्वारोह सुभटाः पथि पुञ्जिष्ठाः समुदायस्था: सन्तोकीर्तयन्नवर्णयन् । १ बी नाय २ बी पुत्र था. ३ ए सी डी ' स्थापत्या' ४ सी 'स्कु . ५ सी 'दमत्रक ३५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy