SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ २७२ व्याश्रयमहाकाव्ये [मूलराजः] पुनर्वसुषेणः कचि पुनर्वसुषेणकः । यद्वा । पुनर्वसुषेणो मुख्योस्य "सोस्य मुख्यः" [७.१.१८८ ] इति के पुनर्वसुषेणकः सङ्घः । सह तेन वर्तते यः स शतभिषक्सेनो नृपः पार्श्वभूत् । एकस्मिन्पार्श्वे शतभिषक्सेनोपरस्मिंश्च पुनर्वसुषेणकोभूदित्यर्थः ॥ रोहिणिषेणः रोहिणिसेन । इत्यत्र “भादितो वा" [२७] इति वा पः ॥ इत इति किम् । पुनर्वसुषेणकः । पूर्वेण नित्यमेव । शतभिषक्सेनः ॥ विष्टलं कुष्ठलं क्रान्त्वा परिष्ठलकपिस्थले । उष्ट्राः शमिष्ठलं जग्मुः कृष्ट्वा रूढान् कपिष्ठलान् ॥११०॥ ११० उष्ट्राः शमिष्ठलं शमीनां स्थलं जग्मुः शमीतरुपत्रप्रियत्वात् । किं कृत्वा । क्रान्त्वोल्लङ्घय । कानि । विगतं वीनां वा पक्षिणां स्थलं विष्टलं कुत्सितं कोर्वा पृथ्व्याः स्थलं कुष्ठलं परिगतमाम्रादिभिर्याप्तं स्थलं परिष्ठलं कपीनां स्थलं कपिस्थलं द्वन्द्वे ते च । तथा रूढांश्चटितान्कपिष्ठेलान् । कपिष्ठलो नाम गोत्रस्याद्यः प्रवर्तयिता यन्नाम्नापत्यसंततिर्व्यपदिश्यते । उपचारात्तद्वंश्या अप्युच्यन्ते । तान् भटविशेपन्कृिष्ट्वा बलादाकृष्य ।। विष्टलम् । कुष्ठलम् । शमिष्ठलम् । परिष्टल । इत्यत्र "विकुशमि" [२८] इत्यादिना षः॥ कपिष्ठलान् । इत्यत्र "कपेर्गोने" [२९] इति षः ॥ गोत्र इति किम् । कपिस्थले॥ १सी ट्रा श. १ ए सी डी °धान् ब. घेण । रो'. २ सी वीमां वा. ३ सी 'ठलो. ४ बी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy