SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ २७१ [है० २.३.२६.] तृतीयः सर्गः । निभा मण्याल्यो हेमशङ्खादिमयमणिपतयो नृपं शशंसुस्तुष्टुवुरिव । इवोवसेयः । यतश्चलनेनान्योन्यं संसर्गादन्योन्येनैव च कर्ताभिनिस्तन्यन्ते शब्दाय्यन्तेभिनिस्तानाः । किमिति शशंसुरित्याह । यतो युधिष्ठिरगुणं न्यायादिगुणैयुधिष्ठिरतुल्यम् ॥ गविष्ठिराभाः श्रीषेणहरिसिंहादयोवुडन् । विष्वक्सेनोग्रसेनोरुसेनेत्र कटकोदधौ ॥ १०८ ॥ १०८. गविष्ठिराभा न्यायादिना गविष्ठिरमुनिसमाः श्रीषणहरिसिंहादयो राजानोत्र मूलराजीये कटकोधावत्रुडन्नलक्ष्यी बभूवुः। यतो विष्वक्सेनो विष्णुरुप्रसेनः कंसपिता द्वन्द्वे तयोरिवोयो बृहत्यः सेनाः कटकविशेषा यत्र तस्मिन्नतिमात्रानेकनृपसेनालयत्वादयन्तं महाप्रमाण इत्यर्थः ॥ अभिनिष्टान । इत्ययम् "अभिनिष्टानः" [२४] इति निपात्यते ॥ नाम्नीत्येव । अभिनिस्तानाः॥ गविष्ठिर ।युधिष्ठिर । इत्यत्र “गवि" [२५] इत्यादिना पः ॥ श्रीषेण । इत्यत्र "एत्यकः" [२६] इति पः ॥ एतीति किम् । हरिसिंह ॥ अक इति किम् । विष्वक्सेन ॥ नाम्नीत्येव । उरुसेने ॥ नाम्यन्तस्थाकवर्गादित्येव । उग्रसेन ॥ . अग्रे रोहिणिषेणोभूत्पश्चाद्रोहिणिसेनजः । पार्वे शतभिषक्सेनः स पुनर्वसुषेणकः ॥ १०९ ॥ १०९. स्पष्टः । किं तु रोहिणिषेणादयो राजविशेषाः । तथाज्ञातः १ बी वोत्रावत्राव. २ सी लक्षी ब. ३ सी निष्टाना. ४ ए डी सिंहः । अ. ५ सी स्थाव. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy