SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ [है० २.३.३०. ] तृतीयः सर्गः । २७५ अत एव स्थपुटेष्वपि विषमप्रदेशेष्वप्यनिःषेधैर संवलितगतिभिः । सुषंधित्वेनास्खलितगतित्वेन चालक्ष्यसंधित्वादेककाष्ठमया इव रथा ज्ञाता इत्यर्थः ॥ निःषामाणो महामात्रैर्दुःषामाणः सुषामभिः । अभीरुष्ठानसैन्यस्य प्रष्टतां निन्यिरे गजाः ॥ ११५ ॥ ११५. साम्नः सामवेदान्निष्क्रान्ता निःषामाणः । गजा हि सामवेदात्प्रसूता इति गजलक्ष्मशास्त्रम् । गजाः सुषामभिः शोभनैः सामवाक्यैः कृत्वा शोभनसामोपायान्वितैर्वा महामात्रैर्हस्तिपकैः कर्तृभिनिन्यिरे नीताः । काम् । अभीरूणां निर्भीकाणां स्थानं निवासो यत्सैन्यं तस्यै प्रष्ठतामप्रेसरत्वम् । यतो दुष्टमरुचितं साम सांत्वनमी येषां तेतिमदोत्कटत्वेनात्यसहना इत्यर्थः । येपि गजा इव गजा बलिष्ठा दर्पिष्ठाच महायोधा युद्धप्रियत्वेन दुःषामाणो रुचितसामोपाया अत एव निःषामाणो मुक्तसामोपायाः स्युस्ते सुषामभिर्महामात्रै: प्रधानैर्युद्धार्थमभीरुष्ठानसैन्यस्य प्रष्ठतां स्वर्णपट्टबन्धेन मुख्यतां नीयन्त इत्युक्तिः ॥ गोष्ठेषु । अनम्बाष्ठाः । "ड्यापो बहुलं नाम्नि " [२. ४९९ ] इति हस्वस्वेन आम्बध्य । श्लिष्टनिर्देशादुभाभ्यामपि स्यात् । आम्बष्ठता । सव्यष्ठ । अपष्ठ । द्विष्ठ । त्रिष्ठेषु । भूमिष्ठ | अग्निष्ठ | शेकुष्ठ । शङ्कुष्ठ | कुष्ठ । अङ्गुष्टि॑म् । माञ्जिष्ठ । पुञ्जिष्ठाः । बर्हिःष्ठ । परमेष्ठ । दिविष्ठ । इत्यत्र “गोम्बाम्ब" [३०] इत्या दिना षः ॥ 1 १ सी सु. १ बी रखलि. ५ बी छ । मा Jain Education International ० २ बी पृष्टता. ३ बी यात ४ बी ले आ. ६ बी हिंए।. ७ बी गोत्या. For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy