SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये [ मूलराजः ] 1 दे स्वानुकूलान् स्वजनादींश्च पोषयति तथा धर्मोप्यत्रत्य जनविनय लक्षणेन महाबलेन बलिष्ठत्वादहंकारादीन् स्वशत्रूनभिभवति स्वानुकूलान् दानशीलादींश्च पोषयतीत्यर्थः । अत एव प्रेकति प्रकर्षेणैक इवासाधारण इवाचरति । बलिष्ठत्वेन निःसपत्नत्वान्निरुपमो भवतीत्यर्थः । उत्प्रेक्ष्यते । प्रौषधयन् । पूर्ववदुत्प्रेक्षात्रावसेया । प्रकर्षेण बलकान्त्यादिवृद्धिकरीमोषधिं कुर्वन्निव । णिज् । करोति: सामान्यकरणार्थोपि प्रस्तावादिह विशेषे भक्षकरणे वर्तते । यद्वा । अनेकार्थत्वाद्धातूनां करोतिरिह भक्षणार्थस्तेनौषधिं भक्षयन्निवेत्यर्थः । यो हि बलकान्त्यादिवृद्धिकरीमोषधिं भक्षयति स तत्प्रभावादोजस्वी निरुपमश्च स्यात् । अचिन्त्यो हि मणिमंत्रौषधीनां प्रभावः ॥ 1 1 1 I २० रजतं चारु ईक्षित्वा हारि अत्र च काञ्चनम् । दधियेतन्मधुवेतत्कुमारी एवमूहते ।। २२ ।। २२. सुगमः । नवरं हारि जात्यत्वाद्रम्यम् । एतत्प्रत्यक्षं वस्तु दधि वर्तते । एवं तथैतत्प्रत्यक्षं वस्तु मधु वर्तते । एवं च बालिका वितर्कयति । सावर्ण्याद्वाल्याचैवमूहः । एवमिति भिन्नक्रमे यथास्थानं योजित एव । एवंशब्देनैव कर्मण उक्तत्वाद्दधियेतदित्यत्र मधुवेतदित्यत्र च नामार्थमात्रे प्रथमैव ॥ रोदस्यो पावयन्त्येनोलवन्यौर्वाग्निनायिनी । श्रव्येतिवृत्ता ब्राहृयत्र गव्यनाव्यजला नदी ॥ २३ ॥ २३. अत्र पुरे ब्राह्मी ब्रह्मणोपत्यं नदी सरस्वत्यस्ति । कीदृशी । ब्रह्मणः पुत्रीत्वेन महातीर्थत्वादेनः पापं लूयतेनयेत्येनोलवनी । अत एव रोदस्यो द्यावापृथिव्यौ पावयन्ती पवित्रयन्ती । तथैौर्वाग्निं वडवानलं १ एफ् षति. २ बी क्षणम सी एफ 'क्षणे म. ३ सी डी एफ् 'त्प्रेक्षते. ४ बी सी डी मौष ५ बी सी 'रीमौष ६ एफ् मत्रमहौष ७ सीडी "स्तु मधु 'थैव त ८ फू ९ सी डी 'यन्ति । सा १० ए बी ती. Jain Education International · For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy