________________
[है० १.२.१९.] प्रथमः सर्गः। . त्रासाकुल: परिपतन्परितो निकेतान्पुंभिर्न कैश्चिदपि धन्विभिरन्वबन्धि । तस्थौ तथापि न मृगः क्वचिदङ्गनाभिराकर्णपूर्णनयनेषुहतेक्षणश्रीः॥५.२६. __ परितः सर्वतो निकेतान्परिपतन्नोक्रामन्न कैश्चिदपि चापपाणिभिरसौ मृगोनुबद्धस्तथापि न कचित्तस्थौ त्रासचापलयोगात्स्वाभाविकादेव । तत्र चोत्प्रेक्षा ध्वन्यते । अङ्गनौभिराकर्णपूर्णैर्नेत्रशरैर्हतेक्षणश्री: सर्वस्वभूतास्य यतोतो न तस्थौ । नन्वेतदप्यसंबद्धमस्तु । न । शब्दार्थव्यवहारे हि प्रसिद्धिरेव प्रमाणम् । एवमन्यत्रापि ज्ञेयम् ॥
श्रोत्रियोंकारैः । स्वोढाम् । इत्यत्र “ओमाङि" [१८] इत्यल्लुक् ॥ आङि दीर्घत्वेनैव सिद्धे लुग्विधानमनर्थकं स्यादित्याङित्याङादेशो गृह्यते । तेन आ ऊढा ओढा । ततस्तेन समासः ॥
प्रेलितः । पोखति । इत्यत्र "उपसर्गस्य" [१९] इत्यादिनाल्लुक् । अनिणेधिति किम् । उपैति । उपैधते ॥
अत्र गुर्वर्थपित्रर्थनतिलाकृतिभिर्जनैः । प्रोजायते प्रौषधयन् धर्मः प्रेकत्युपैकितैः ॥ २१ ॥ २१. अत्र पुरे धर्मः प्रोजायते प्रकर्षेणौजस्वीव बलिष्ठ इवाचरति । कैः कृत्वा। जनैः । किंभूतैः सद्भिः । गुरुर्धर्माचार्यो विद्याचार्यो वा तस्मा इयं गुर्वा । पितरौ मातापितरौ ताभ्यामियं पित्रा । द्वन्द्वे ते ये नती प्रणामौ ताभ्यामेव न तु रोगादिना लकारस्येव लकारस्येव वा वक्रा आकृतिः संस्थानं येषां तैः । विनीतैरित्यर्थः । अत एवोपपन्नं यथा स्यादेवमेक इव मुख्या इवाचरन्ति स्म । क्विपि ते च उपैकिताः । तैः । सर्वगुणमूलविनयवत्त्वेन प्रधानैरित्यर्थः । यथौजस्वी स्वौजसा शत्रून् पराभवति
१ एफ तान् पत. २ बी एफ नाक्रम. ३ एफ नारा'. ४ सी डी यतो न. ५ सी डी एफ °स्तु । श. ६ वी आङ् दी. ७ एफ धि इति. ८ एफ् यत्वेन.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org