________________
१८
व्याश्रयमहाकाव्ये
[मूलराजः]
मात्रवाची । ओष्ठयोः स्थूल: स्थूलत्वं यासां ता ओष्ठस्थूला न । यद्वा । गुणिवचनः स्थूलशब्दः । नौष्ठाभ्यां स्थूलाः । न स्थूलोष्ठय इत्यर्थः ।।
दी!ष्ठाः हस्त्रौष्ठाः । वृद्धोतु अभौतु । इत्यत्र "वौष्ठौतौ समासे” [१७] इति वाल्लुक् ॥ समास इति किम् । नौष्ठस्थूलाः । नौतुनेत्राः ॥
अनोपैति जनः खोढां न पोखति परस्त्रियम् ।
प्रेलितः श्रोत्रियोङ्कारैर्धर्मश्चास्मिन्नुपैधते ॥ २०॥ २०. अत्र पुरे जनो लोकः स्वोढां स्वेनौढामात्मना परिणीतामुपैत्युपगच्छति । सेवत इत्यर्थः । ननु स्वदारांस्तावत्सेवते परदारानपि सेविष्यत इत्याह । परस्त्रियं परेणोढां नारी न प्रोखति धार्मिकत्वान्न गच्छति । अत एवास्मिन्पुरे धर्मश्च न केवलमुक्तनीत्या कामः किं त्वाद्युपुमर्थोप्युपैधते वर्धते । परस्त्रीवर्जनं हि परमधर्मवृद्धिनिबन्धनं स. वंशास्त्रेषु गीयते । उत्प्रेक्ष्यते । श्रोत्रियोंकारैः प्रेलित इव । श्रोत्रियाणां यष्ट्रणां यागादिविधिकाल उच्चारणेन संबन्धिनो य ओंकाराः प्रणवास्तैः प्रेरित इव प्रेरितो वर्धस्व वर्धस्वेति दत्तानुमतिक इवेत्यर्थः । अत्रत्यलोकस्य परदारवर्जकत्वेन धर्मः स्वयमेव वर्धते श्रोत्रियैश्च यागादिविधौ वेदमब्रानुचारयद्भिः स्थाने स्थान ओंकारा उच्चार्यन्ते तेषां चानुमतेरप्यर्थस्य दर्शनादेवमुत्प्रेक्षा । अत्रोत्प्रेक्षा साक्षादनुक्तापि वाक्यार्थसामर्थ्यादवसीयत इति । नचैवंविधे विषय इवादिशब्दप्रयोगमन्तरेणासंबद्धतैवेति शक्यं वक्तुम् । गमकत्वात् । अन्यत्रापि तदप्रयोगे तदर्थावगतिदर्शनात् । यथा माघकाव्ये।
१बी “वोष्ठौतौ. सी डी "चौठोतो. २ एफ पैति से'. ३ एफ पि न से'. ४ एफ् यः पु. ५ बी रमं ध. ६ सी डी एफ् प्रेक्षते. ७ सी डी इति । श्रो'. ८ सी डी णां या. ९ए लो. १० एफ °मत्रोच्चा. ११ सी डीक्षा सा. १२ एफ वं विप.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org