SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ [है० १.२.२१.] प्रथमः सर्गः । २१ समुद्रमवश्यं नीतवती “णिन् चावश्यकाधमर्थे" [५. ४. ३६.] इति णिनि और्वाग्निनायिनी । सकलं जगद्भक्षयिष्यामीति वदन्तं वडवाग्निं ब्रह्मादिष्टा सरस्वती समुद्रे प्रक्षिप्तवतीति पुराणम् । अत एव श्रव्यं श्रवणाहमितिवृत्तं चरितं यस्याः सा । तथा गव्यं सुस्वादुशीतलशुभपरिणामत्वादिना गोभ्यो हितं नाव्यं चागाधत्वान्नावा तार्यं च जलं यस्यां सा । एतेनास्य पुरख्यातिपावित्र्यं निर्दोषजलप्राचुर्य चोक्तम् ॥ न गव्यत्यत्र गोयानो नौयानो न च नाव्यति । उपोयमानः श्राव्याभिलौयमानीसुगीतिभिः ॥ २४ ॥ २४. अत्र पुरे गोयानो वृषवाहनो नरो न गव्यति न गामिच्छति तथा नौयानश्च प्रवहणवाहनः पुमान्न नाव्यति न नावमिच्छति। यतः श्राव्याभिर्मधुरतयावश्यं श्रवणार्हाभिलौंयमानीसुगीतिभिः । लूयते कूर्चश्रेण्यां लूयमानो देवलो मार्दङ्गिकादिस्तस्यापत्यानि स्त्रिय: “अत इञ्" [६.१.३१.] लौयमान्यो गायन्यः । यद्वा । लूयन्ते लूयमानाः केदारास्तेषामिमा रक्षित्र्यः "तस्येदम् " [ ६. ३. १६०.] इत्यणि लौयमान्यो गोप्यः । तासां सुगीतयः शोभनगानानि । ताभिरुपोयमानो व्याप्यमानः । आवर्ण्यमान इत्यर्थः । एवं नाम सुगीतीनां माधुर्यादिगुणैर्हृतहृदया यावता स्वस्य यानहेतुत्वेनात्यभीष्टमपि गवादिकं यानं चौराद्यैरपहियमाणमपि गोयानादय: सुगीतिश्रवणभङ्गभयेनावहेलयन्तीत्यर्थः ॥ प्रेकति उपैकितैः । प्रोजायते प्रौषधयन् । इत्यत्र " वा नाम्नि" [२०] इत्यस्य लुग्वा ॥ प्रेकत्युपैकितैः । गुर्वर्थ । पित्रर्थ । लाकृतिभिः । इत्यत्र “इवर्णादेः [२१] इत्यादिना यवरलाः ॥ केचित्त्विवर्णादिभ्यः परान् यवरलानिच्छन्ति । दधियेतत् । मधुवेतत् । तन्मतसंग्रहार्थमिवर्णादेरिति पञ्चमी व्याख्येया ॥ १ सी स्वादशी. २ सी डी °ति त'. ३ एफ वल. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy