________________
२६२
व्याश्रयमहाकाव्ये
[ मूलराजः] गौः पयस्कं क्षरन्सस्य स्वःकल्पायां पुरो भुवि । पयस्काम्यदधःकाम्यदवाःकाम्यत्सुताभवत् ॥ ९०॥ ९०. अस्य राज्ञो गच्छतः पुरः स्व:कल्पायां क्षीरतरुच्छायाहरिततृणशुचित्वादिगुणरम्यत्वेन स्वर्गतुल्यायां भुवि गौर्धेनुरभूत् । कीदृशी सती । पयस्काम्यन् क्षीरकण्ठत्वेन दुग्धाभिलाषुकोत एवाधःकाम्यन् दुग्धपानायाधस्तनप्रदेशस्येच्छुरवाःकाम्यन्नवप्रसूतत्वान्जेलस्याप्यनिच्छुः सुतो वत्सो यस्याः सात एवापत्यस्नेहेन पयस्कमल्पं पयो दुग्धं क्षरन्ती स्रवन्ती । गन्तुकस्य हीदृग्गौः शकुनमतल्लिका ॥
यशस्कृते । श्रेयस्कामः । सहस्कंसः । पयस्कुम्भम् । अयस्कुशावान् । पयस्कर्णी । ऊर्जस्पात्रम् । इत्यत्र “अतःकृकमि" [५] इत्यादिना सः ॥ अत इति किम् । गी:कारः ॥ अनव्ययस्येति किम् । पुनःकारम् ॥
रोधस्पाशम् । यशस्कल्पः । पयस्कम् । इत्यत्र "प्रत्यये" [६] इति सः ॥ अनव्ययस्येत्येव । स्वःकल्पायाम् ॥
पयस्काम्यत् । इत्यन्न "रोः काम्ये" [७] इति सः ॥ रोरिति किम् । अवाःकाम्यत् । अनव्ययस्येत्येव । अधःकाम्यत् ॥
ज्योतिष्काम्यत्सु धूःकाम्यन् धनुष्कल्पध्रुवं स्त्रियम् ।
ससर्पिष्कामगीष्पाशां निष्कलङ्कां स ऐक्षत ॥९१ ॥ ९१. स राजा ज्योतिर्ज्ञानमिच्छन्ति ये तेषु ज्योतिष्काम्यत्सु धू:काम्यन् धुरमिच्छन् शकुननिमित्तादिज्ञेषु मध्ये धुरीण: सन् स्त्रियमैक्षत । कीदृशीम् । धनुष्कल्पे कुटिलत्वेन चापतुल्ये भ्रुवौ यस्यास्ताम् । १ सी पाशनि.
१ बी धरस्य स्त'. २ डी जलं तस्या . .३ ए सी डी स्येव. ४ बी °ध्येपु धु'.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org