________________
[है० २.३.४.] तृतीयः सर्गः ।
२६१ पुंस्करिणः । पुंस्खगिभिः । पुंस्पाता । पुंस्फाल्गुनः । इत्यत्र "पुंसः" [३] इति सः॥ शिरस्पदम् । अधस्पदम् । इत्यत्र “शिरोधसः" [४] इत्यादिना सः ॥ अथ राज्ञः प्रस्थानमेव श्लोकानामेकोनत्रिंशता वर्णयति ।
श्रेयस्कामः सहस्कंसोयस्कुशावान्यशस्कृते । यान्सोपश्यत्ययस्कुम्भं पयस्कर्णीशुभं पुरः ॥ ८८ ॥ ८८. स राजा पयस्कुम्भं जलघटं पुरोपश्यत् । कीहक्सन् । सहसो बलस्य कंसः पात्रमत एवायःप्रधाना कुशायस्कुशा । अत्र प्रस्तावादकुशः । सास्यास्ति अयस्कुशावान्यशस्कृते शत्रुजयोत्थकीर्त्यर्थं यान् शत्रु प्रति गच्छन्नत एव च श्रेयः कामयते अणि श्रेयस्कामः कुशलार्थी । किंभूतं कुम्भम् । पयश्च की च पयस्कण्यौँ ताभ्यां शुभमभग्नकर्ण जलपूर्ण चेत्यर्थः । यात्रायां हि जलपूर्णस्य पूर्णकलशस्याग्रतो दर्शनं महाशकुनम् ॥
ऊर्जस्पात्रं पुनःकारं गी:कारः सव्यतोस्य गौः।
यशस्कल्पो द्विषदुर्ग रोधस्पाशं शशंस नु ॥ ८९॥ ८९. गौः शण्ड: सव्यतो राज्ञो वामदेशे पुनर्वारंवारं कारः करणं यत्र तद्यथा स्यादेवं गिरं शब्दं करोतीति गी:कारः सन्नस्य राज्ञो द्विषहर्ग ग्राहारिदुर्गस्थानं रोधस्पाशं निन्द्यतटं शशंस नूवाचेव । यथाहं रोधस्पाशं सुखेन विक्षिपामि तथा त्वं द्विषहुर्ग विक्षेप्स्यसीति शब्दायमानः शण्डो वददिवेत्यर्थः । कीदृक् । ऊर्जस्पात्रं बलिष्ठस्तथेषदूनं यशो यशस्कल्पः । “वाद्यन्ते स्वार्थिकाः क्वचित्" इति क्लीबत्वाभावः । अतिश्वेतत्वाद्यशस्तुल्यः। यात्रीयामी शण्डः शकुनराजः।
१सी पुंस्पल्गु. २ ए सी डी स्कर्णी ता. ३ बी लसस्या . ४ सी निन्छ त'. ५ बी त्रायां हीदृ. ६ सीक सण्ड'.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org