SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ २६० व्याश्रयमहाकाव्ये [ मूलराज : ] स्थितं पादं तिरः कृत्वा तिरस्कृतगिरिं गजम् । तिरःकृतारिः सोध्यास्त तिरस्कृत्वा रविं त्विषा ॥ ८६ ॥ ८६. तिरःकृता अन्तर्हिता जिता अरयो येन से तथा स मूलराजस्त्विषा तेजसा कृत्वा रविं तिरस्कृत्वान्तर्धाय विजित्यातितेजस्वी भूयेत्यर्थः । गजमध्यास्त । कीदृशम् । तिरस्कृत गिरिमौन्नत्येन पराभूताद्रिम् | यदि शैलादप्युन्नतो गजस्तर्हि कथं तमध्यास्तेत्याह । यतः पाद तिरःकृत्वा तिरश्चीनं विधायाधोवनम्येत्यर्थः । स्थितं निश्चलीभूतम् । गजो हि पाश्चात्ययोः पादयोर्मध्ये येन केनाप्यारुह्यते । तमसावधोवनमयति । तिरस्कृत्वा रविं त्विषा तिरस्कृतगिरिं गजं सोध्यास्तेत्यनेन यथा रविर्गिरिमुद्याचलमारोहति तथायं गजमिति व्यज्यते ॥ तिरस्कृत तिरःकृत । इत्यत्र " तिरसो वा " [२] इति वा सः ॥ गतेरिति किम् । तिरः कृत्वा ॥ अगतेरप्यन्तर्द्धाविच्छत्यन्यः । तिरस्कृत्वा ॥ पुंस्फाल्गुनः स पुंस्पाता मत्तपुंस्करिणस्तदा । शिरस्पदमलंचक्रे पुंस्खङ्गिभिरधस्पदम् ।। ८७ ।। ८७. स मूलराजस्तदा यात्राकाले मत्तो मदोत्कटः पुमान्पौरुषो - पेतश्च यः करी तस्य शिरस्पदं कुम्भस्थलस्थानमलंचक्रे । कीदृक् । पुंस्सु पौरुषोपेतेषु फाल्गुन इवार्जुन इव पुंस्फाल्गुनोत एव पुंस्पाता पुरुषाणां रक्षकः । तथा पुंस्खङ्गिभिः पौरुषोपेतखङ्गधरैश्वास्पदं हस्तिनोर्धस्थानमलंचक्रे । करीन्द्रो हि राज्ञाध्यासितः परप्रवेशनिवारणाय खड्गिभिरधः परिचार्यत इति स्थितिः || ७ १ सी रवि १ सी समू. २ए यो पा. ३ ए सी येना के ४ ए सी 'रकृत्वा डी र: कृत्वा . ५ डी पुंस्पा, ६ बी धःस्था ७ वी 'रिवार्य. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy