SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः । पुरस्खेलिपुरस्पातिपुरस्फक्कैः स तैर्विभान् । नमः करोति स्म महालक्ष्म्यै भक्तिपुरस्कृतः ॥ ८५ ॥ [है० २.३.१.] ८५. महालक्ष्म्यै नमः करोति स्म । नमः शब्दमुच्चारितवान्ननाम वा । इष्टदेवताप्रणामपूर्वे हि यात्रा क्रियत इति स्थितिः । कीदृक्सन् । भक्तिपुरस्कृतो बहुमानेन प्रेरितस्तथा तैर्गोग्रामादिभोक्तभिरन्यैश्च नृपैर्विभान् । यतः पुरस्खेलिपुरस्पातिपुरस्फक्कैः । कैश्चित्पुरस्खेलिभिः प्रसादपात्रत्वादग्रे क्रीडनशीलैः कैश्चिच्च पुरस्पातिभिर्भक्त्यतिशयख्यापनायाग्रे लुठद्भिः कैश्चिच्च पुरस्फक्कैर्विनयान्नी चैर्गच्छद्भिः ॥ 1 आवां स्थास्यावः । वयं भास्यामः । वेकयहम् । वयं ब्रूमः । इत्यत्र "अविशेषणे”” [१२२] इत्यादिमास्मदो द्वावेकश्चार्थो वा बहुवत् ॥ फल्गुन्यौ फल्गुनीषु । प्रोष्ठपदे प्रोष्ठपदसु । इत्यत्र “ फल्गुनी” [ १२३] इत्यादिना द्वावय बहुवद्वा ॥ ४ जयत्वम् । यूयमेधध्वम् । युवामच्यौं । यूयं गृहाः । इत्यत्र "गुरावेकश्च " [१२४] इति द्वावेकवार्थो बहुवद्वा ॥ दाराः । गृहाः । देशमश्मकान् । गोदौ ग्रामम् । खलतिकं वनानि । इत्यत्र सर्वलिङ्गसंख्ये वस्तुनि स्याद्वादमनुपतति मुख्योपचरितार्थानुपातिनि च शब्दात्मनि रूढितस्तत्तलिङ्गसंख्योपादानव्यवस्थानुसतच्या ॥ षष्ठः पादः समर्थितः ॥ नमस्कृत्य । पुरस्कृतः । पुरस्खेलि । पुरस्पाति । पुरस्फक्कैः । इत्यत्र "नमस्पुरसोः " [१] इत्यादिना सः ॥ गतेरिति किम् । नमः करोति । अत्र नमः - शब्दान्तरं न त्वत्ययमिति । नमः शब्दस्य कृद्योगे विकल्पेन गतिसंज्ञाविधानाद्वा ॥ २५९ १ एफू क्तिभर २ एफ् ॥ ८५ ॥ इत्याचार्यश्री हेमचन्द्रविरचितायां शब्दानुशासनद्याश्रयमहाकाव्ये षष्ठपादसमर्थितः । समाप्तः । १ एफू या. २ सी 'नेव प्रे. ३ सी दाष्टपदा. ५ सी डी इति प ६ सी डी 'तः इति षष्ठः पादः समाप्तः ॥ Jain Education International For Private & Personal Use Only ४ ए 'लिङ्गथसं'. ७ सी 'स्कृतः । www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy