SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ २५८ घ्याश्रयमहाकाव्ये [ मूलराजः] रभद्रपदाभिर्वा चन्द्रयुक्ताभिर्युक्ते काले याम्यां दिशं दक्षिणां यान्तु । म्रियन्तामित्यर्थः । प्रोष्ठपदासु हि दक्षिणदिशि याने पुनरागमनं न स्यात् । यदुक्तम् ॥ धनिष्ठारेवतीमध्ये चन्द्रे चरति यो ब्रजेत् । दक्षिणस्यां कदाप्यस्य पुनरागमनं न हि ॥ ततश्च जय त्वं तथा यूयमेधध्वं लक्ष्म्या त्वं वर्धस्वेति ॥ युवामच्यौँ गृहा लक्ष्म्या यूयमस्य भुजाविति । कल्याणतिलकाकृष्टा दारा जगुरिवालिनः ॥ ८३ ॥ ८३. अस्य राज्ञो भुजौ कल्याणहेतुत्वात्कल्याणं कल्याणाय वा पुरोधसा कृतं यत्तिलकं तेनाकृष्टाः सौरभेण दूरादानीता अलिनो भृङ्गस्य दारा भृङ्गी जगुरिवं गायन्ति स्मेव । कथमित्याह । हे भुजौ यूयं युवां लक्ष्म्या विजयादिश्रियो गृहा आश्रयावत एव युवामच्यौँ स्थ इति । भुजयोर्गानाशङ्का च तयोरेव भविष्यजयहेतुत्वेन यात्रारम्भकाले गानाहत्वात् । या अपि दारा आकृष्टितिलकाकृष्टा भवन्ति तास्तस्याक्रष्टुर्गानादिकं कुर्वन्तीत्युक्तिः ।। गोदौ ग्राम खलतिकं वनानि देशमश्मकान् । भोक्तारोन्येपि भूपास्तं नमस्कृत्याग्रतोभवन् ॥ ८४ ॥ ८४. स्पष्टः ॥ १ए लक्ष्मा यू. २ बी मस्मका. ३ सी डी ।। ८४ ॥ पुर. १ एफ भिर्यु'. २ ए दिशि द. ३ ए लक्ष्या त्वं. ४ सी डी ल्याणं क. ५ एफू भृङ्गयो ज. ६ सी व क. डी व स्मे. ७ सी लक्ष्मा वि. ८ सीडी त् । यथा अ". Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy