SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ २५७ [है० २.२.१२१.] तृतीयः सर्गः । २५७ वेदयहं तद्वयं ब्रूमः पार्थो यः फल्गुनीष्वभूत् । स त्वं जयेति वक्तास्य पुरोधास्तिलकं व्यधात् ॥ ८०॥ ८०. पुरोधा अस्य राज्ञो यात्रोचितं तिलकं व्यधात् । कीहक्सन् । वक्ता वदन् । किमित्याह । तदहं वेद्मि जाने तथा तद्वयं ब्रूमस्तच्चाई सर्वत्र कीर्तयामि । यत्किम् । यः पार्थः फाल्गुनोर्जुनः फल्गुनीपु फल्गुनीभिश्चन्द्रयुक्ताभिर्युक्ते कालेभूज्जातः स पार्थस्त्वं भवानेव । तत्पराक्रमादिगुणोपेतत्वात् । तस्माजय शत्रुपराभवेनोत्कृष्टो भव । अर्जुनो हि शत्रुजयेनोत्कृष्टोभूदिति ॥ धूयमाने अलक्ष्येतां राजानमनु चामरे । शशाङ्कमनु फल्गुन्यौ किं नु प्रोष्ठपदे नु किम् ॥ ८१ ॥ ८१. राजानं मूलराजमनुलक्ष्यीकृत्य धूयमाने वीजनाय चल्यमाने चामरे अलक्ष्येतां लोकैरुत्प्रेक्षिते । कथमित्याह । शशाङ्कं चन्द्रमनुर्लेक्ष्यीकृत्य किं नु फल्गुन्यौ किं नु किं वा प्रोष्ठपदे । धूयमानचामरद्वयमध्यस्थो राजा पूर्वफल्गुन्योः पूर्वभद्रपदयोस्तारिकयोर्मध्यस्थश्चन्द्र इव लोकैति इत्यर्थः ॥ यान्तु याम्यां दिशं प्रोष्ठपदासु तव शत्रवः । जय त्वं यूयमेधध्वमिति ज्योतिर्विदोवदन् ॥ ८२ ॥ ८२. ज्योतिर्विदोवदन्नात्मानुरूपा आशिषो ददुः । यथा हे राजस्तव शत्रवो ग्राहरिप्वादयः प्रोष्ठपदासु प्रोष्ठपर्दाभिः पूर्वभद्रपदाभिरुत्त १ ए दिशि प्रो. १ एफ् नीभि. २ ए °भियुक्ते. ३ सी °य वल्य. डी °य चाल्यौं. ४ ए लक्षीकृ. ५. सी डी योर्म'. ६ सी डी लोके ज्ञा. ७ सी तिवेदो . ८ बी दादिभि. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy