SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ २५६ ब्याश्रयमहाकाव्ये [मूलराजः]] दूरं राज्ञोपठन् मृता विप्रः सर्वोन्तिकेन तु । अन्तिकाद्गुरुराशास्त गायनाश्चान्तिकं जगुः ॥ ७८ ॥ ७८. राज्ञो नृपस्य नृपाद्वा दूरं सूता भटा अपठेन् । विप्रस्तु ब्राह्मणजातिः पुनः सर्वोपि राज्ञोन्तिके वेदमपठत् । गुरुः पुरोहितजाति: सर्वोपि राज्ञोन्तिकात्समीप आशास्ताशिष दत्तवान् । कृत्यविधिमकथयद्वा । गायनाश्च राज्ञोन्तिकं निकटे जगुः ॥ यो हेतुः । यं हेतुम् । येन हेतुना । यस्सै अर्थाय । यतो हेतोः । यस्य हेतोः । तत्र हेतौ । इत्यत्र “सर्वादेः सर्वाः" [११९] इति सर्वा विभक्तयः ॥ दूरेण राज्ञः । दूराच्छ्रेयसाम् । दूरे लोकस्य । दूरं राज्ञः ॥ अन्तिकार्थ । राज्ञोन्तिकेन । राज्ञोन्तिकात् । लोकस्यान्तिके । राज्ञोन्तिकम् । इत्यत्र “असस्वाराद्" [१२०] इत्यादिना टा-ङसि-डि-अम्प्रत्ययाः ॥ विप्रः सर्वः सूताः । सर्वो गुरुः गायनाः । इत्यत्र "जाति" [१२१] इत्यादिनैकोर्थो बहुवद्वा ॥ स्थास्यावः सुखमद्यावां भास्यामोद्य वयं श्रिया । इति तूर्यप्रतिरवैल्पतः स्मेव रोदसी ॥ ७९ ॥ ७९. तूर्यप्रतिरवैर्यात्रामाङ्गलिक्यविधापनाय सिंहासनमध्यासीने राज्ञि विशेषतो वाद्यमानानी नान्दीतूर्याणां व्योमादौ प्रतिशब्दितैः कृत्वा रोदसी जल्पतः स्मेव । किमित्याह । अद्य संप्रत्यस्मदुपप्लाविदैत्यानामुच्छेत्स्यमानत्वादावां सुखं स्थास्यावोत एवाद्य वयमावां श्रिया भास्यामः ॥ १ सी रुताशा. १ सी डी ठत् । वि. २ बी एफ् न्तिके नि. ३ सी डी तोः । त. ४ एफ °न्तिके । इ. ५ एफ सत्त्वेत्या. ६ ए नां दीतू. ७ ए सीव ज° ८ ए बी सी डी एफ °माणत्वा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy