SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ [है० २.२.१२१.] तृतीयः सर्गः। २५५ यो हेतुर्वाजिनां हेषा यं हेतुं दन्तिनां मदः। हेतुनोक्ष्णां ध्वनिर्येनार्थाय यस्मै भटोद्यमः ॥ ७५ ॥ सोच्छासाँ भूर्यतो हेतोर्यस्य हेतोः सुखो मरुत् । तत्र हेतौ न दूरेण राज्ञो भावी जयो महान् ॥ ७६ ॥ ७५,७६. येन हेतुनाश्वादीनां हेषादयोभवंस्तेन हेतुना राज्ञो मूलराजस्य मूलराजाद्वा महान जयो न दूरे भावी शीघ्रमेव भविष्यति । वाजिहेषादिभिर्यात्राविषयशुभचिकै विनो यात्राकार्यस्य विजयस्य नैकट्यं सूचितमित्यर्थः ॥ संदानितकमिति युग्मस्य संज्ञा । यदुक्तम् । एकद्वित्रिचतुश्छन्दोभिर्मुक्तकसंदानितकविशेषककलापकानि । अथ दूरेपि लोकस्यान्तिके नु तेजसा ज्वलन् । न दूराच्छ्रेयसां सिंहासनमध्यास्त भूपतिः ॥ ७७॥ ७७. अथ सैन्यसज्जनाद्यनन्तरं भूपतिः सिंहासनमध्यास्त । कीहक्सन् । श्रेयसां पुण्यानां मङ्गलकर्मणां वा न दूरान्निकटस्थ इत्यर्थः । अत एव लोकस्य दूरेपि राजसामन्तादिव्याप्तनिकटप्रदेशकत्वादनिकटेपि वर्तमानस्तेजसा प्रतापेन कान्त्या वा ज्वलन् सल्लोकस्यान्तिके नु समीप इव वर्तमानः । न दूराच्छ्रेयसामिति सिंहासनस्य वा विशेषणम् । सिंहासनसमीपे हि मुक्तास्वस्तिकादीनि माङ्गलिक्यानि कृतानि स्युः ॥ १ सी हेषां यं. २ ए° पा ये हे'. ३ सी डी °सा सूर्य'. ४ एफ ॥ ७६ ।। युग्मम् ।. ५ सी रेवि लो° १ सी वितो या . २ एफ थः ॥ युग्मम् ॥ सं. ३ सी °न्त्या च ज्व. त्या व ज्व. डी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy