________________
२५४
घ्याश्रयमहाकाव्ये [मूलराजः] सुरूपा विभूषितालंकृतीः सधवाश्च युवतयो राजादिमङ्गल्यकर्मसु व्यामृता अभूवन्नित्यर्थः ॥
विना कौसुम्भम् । विना भूषणात् । विनाङ्गरागेण । इत्यत्र "विना" [११५] इत्यादिनी द्वितीयापञ्चमीतृतीयाः ॥
श्रिया तुल्याः । रतेस्तुल्याः । पद्मेन समैः । इन्दोः समैः । इत्यत्रं "तु. ल्याथैः" [११६] इत्यादिना तृतीयाषष्ट्यौ ॥
दत्ताः प्रासादं पूर्वेण गोपुरस्यापरेण च ।। प्राक्पयाणादुत्सवेन हेतुना कुङ्कुमच्छटाः ॥ ७३ ॥ ७३. प्रयाणात्प्राक्प्रथममुत्सवेन हेतुना यात्रामहोत्सवार्थ कुकुमच्छटा दत्ताः कुङ्कमाम्बुना भूश्छटितेत्यर्थः । क। प्रासादं पूर्वेण पूर्वाभिमुखाद्राजभवनात्पूर्वस्यामदूरवर्तिन्यां दिशि गोपुरस्य पूर्वदिगभिमुखस्य पूर्वारस्यापरेण चापरस्यामदूरवर्तिन्यां दिशि च । प्रासादापेक्षया गोपुरस्य पूर्वत्वाद्गोपुरापेक्षया च प्रासादस्यापरत्वात्प्रासादादारभ्य गोपुरं यावदित्यर्थः ॥
स्नेहाय हेतवे भक्तेनिमित्तान्मुदि कारणे ।
नरेन्द्रदर्शनस्यार्थस्योत्सुकोभून्न कस्तदा ॥ ७४ ॥ ७४. स्नेहाय हेतवे प्रेम्णा हेतुना भक्तनिमित्ताबहुमानेन हेतुना मुदि कारणे हर्षाद्धेतोर्यन्नरेन्द्रदर्शनं तस्यार्थस्य मूलराजदर्शनेन हेतुना तदा यात्रारम्भकाले क उत्सुको नाभूत् ॥
प्रासादं पूर्वेण । गोपुरस्यापरेण । इत्यत्र "द्वितीया" [११७] इत्यादिना द्वितीयाषष्ट्यौ ॥ अनञ्चेरिति किम् । प्राक्प्रयाणात् ॥
उत्सवेन हेतुना । स्नेहाय हेतवे । भक्तेनिमित्तात् । दर्शनस्यार्थस्य । मुदि कारणे । इत्यत्र “हेत्वथैः" [११८] इत्यादिना तृतीयाद्या विभक्तयः ॥
१ डी ता अलं. २ बी सी डी ताः सुध. ३ वी पृत्यभू. एफ प्रत्याभू. ४ ए नाहिती. ५ ए वस्तुल्या.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org