SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ [है० २.२.११४.] तृतीयः सर्गः। २५३ अधिको द्रोणः खार्योः । अधिको द्रोणः खार्याः । इत्यत्र "अधिकेन" [१११] इत्यादिना सप्तमीपञ्चम्यौ ॥ अधिको द्रोणोधैन । इत्यत्र "तृतीयाल्पीयसः" [११२] इति तृतीया ॥ नाक्षतैश्चन्दनानाना न दध्नो दूर्वया पृथक् । न पुष्पेभ्यः फलं वार्ते पात्राणि दधिरेङ्गनाः ॥ ७१ ॥ ... ७१. नानापृथक्शब्दावसहायार्थौ । अङ्गनाः पात्राणि न दधिरे । कीशि । अक्षतैरखण्डतण्डुलैश्चन्दनाच्च श्रीखण्डद्रवेण च नानासहायानि । तथा दध्नो दूर्वया च पृथगसहायानि । तथा पुष्पेभ्यः फलं च नालिकेरादि च ऋते विनाभूतानि । अक्षतचन्दनदधिदूर्वापुष्पफलोपेतानि पात्राणि राजादिगृहेषु महेभ्यादिकुलाङ्गनाश्चन्दनवर्धनादिमाङ्गलिक्याय नयन्तीति स्थितिः॥ पृथग्दनः । पृथग्दूर्वया । नाना चन्दनात् । नानाक्षतैः । इत्यत्र "पृथग्नाना" [११३] इत्यादिना पञ्चमीतृतीये ॥ फलमृते । पुष्पेभ्य ऋते । इत्यत्र "ऋते द्वितीया च" [११४] इति द्वितीयापञ्चम्यौ ॥ नासन्विनाङ्गरागेण कौसुम्भं भूषणांत्स्त्रियः। तुल्या रतेः श्रिया चेन्दोः पझेन च समैमुखैः॥ ७२ ॥ ___ ७२. इन्दोः पद्मेन च समैस्तुल्यैर्मुखैः कृत्वा रते: कामपत्न्याः श्रिया च विष्णुभार्यया तुल्याः स्त्रियो नासन् । कथम् । अङ्गरागेण कौसुम्भं कुसुम्भरक्तवस्त्रं च भूषणात्स्वर्णालंकाराच्च विना मङ्गल्यत्वात् । १ बी डी एफ °लं चर्ते. २ ए णा स्त्रि. १ एफ °धिकद्रोण: खार्या इ. २ ए णोधेन ।. ३ सी डी थन्दू. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy