SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ २५२ व्याश्रयमहाकाव्ये [मूलराजः] शयोर्वा विद्धः सन् क्षणयोरल्पमानकालभेदयोः क्षणाद्वा । पूर्वो वात्रापि योज्यः । म्रियेत । ये दूरवेध्यवेधिनो महाप्राणाश्चेत्यर्थः । संभावने सप्तमी॥.. ___ सीदतां कर्मणामेयुः । रुदत्सु बालेष्वेयुः । इत्यन्न “षष्ठी वानादरे" [१०८] इति वा षष्ठी । पक्षे पूर्वेण सप्तमी ॥ नाकिनां नृषु श्रेष्ठम्। इत्यत्र “सप्तमी च" [१०९] इत्यादिना षष्ठीसप्तम्यौ ॥ अन्ये तु पञ्चमीमपीच्छन्ति । अस्त्रिभ्यो वरा योधाः ॥ स्थितैः कोशात्क्रोशयोर्वा विद्धः । क्षणाक्षणयोर्वा नियेत । इत्यत्र “क्रियामध्येध्व" [११०] इत्यादिना पञ्चमीसप्तम्यौ । इह धानुष्कावस्थानमेका क्रिया पुरुषव्यधश्च द्वितीया । तन्मध्ये क्रोशोध्वा । तथा व्यधनमेका क्रिया मरणं च द्वितीया । तन्मध्ये क्षणः कालः ॥ संघदृशीर्णस्त्रीहारैर्मुक्तानां राजवेश्मनि । खार्याः खार्योरप्यधिको द्रोणोर्धेन तदाभवत् ॥ ७० ॥ ७०. तदा यात्रोपक्रमकाले राजवेश्मनि संघटेनान्योन्यं संमर्दैन शीर्णास्युटिता ये नीहारास्तैहेतुभिर्मुक्तानां मुक्ताफलानामधेन ड्याडक्या काधिकोध्यारूढो द्रोण आढकचतुष्कमभूत् । कीदृक् । खार्या मुक्तानामेव द्रोणषोडशकात्खार्योरपि । अपिर्विकल्पार्थः । खारीद्वये वाधिकोध्यारूढवान् । अक्षतक्षेपादिमाङ्गलिक्यविधयेहमहमिकयागतमहेभ्यकुलस्त्रीणामतिबाहुल्यादेवं नाम संमर्दे हारास्युटिता यावता राजगृहाङ्गणे मुक्ताफलानामेका द्वे वा खायौँ सार्धद्रोणेनाधिके अभूतामित्यर्थः॥ १ सी डी भवेत् ।। १ सी डी म्रियते। ये. २ बी द्धः । विद्धः क्ष° ३ सी क्षणकाल 1. डी क्षणकालः ।. ४ ए बी एफ कीधि . ५ बी पिवि॰ ६ एफ पिविक. ७ बी देन हा ८ ए सी डीङ्गणमु. ९ ए ताखला. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy