SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ २५१ [है० २.२.१०७.] तृतीयः सर्गः । ६७. यथा त्रयोदश्यास्तिथेः सकाशादह्नि दिने चतुर्दशीलक्षणे गत इति गम्यते । पर्व पूर्णिमा स्यात्तथेतः पत्तनाद्यो ग्रामो ग्रामस्थो लोकोष्टौ योजनान्यष्टसु योजनेषु गतेषु दशसु वा योजनेषु गतेष्वभूत्स ग्रामो यात्रां प्रयाणं द्रष्टुमाययौ । नानोत्सवादिनात्यद्भुतत्वाद्दूरदेशस्थोपि लोक: कौतुकेन यात्रां द्रष्टुमागत इत्यर्थः ।। इतो ग्रामो योजनान्यष्टौ । इतो ग्रामो योजनेषु दशसु । इत्यत्र “गते गम्ये" [२०७] इत्यादिनैकार्थ्यं वा । पक्षे पूर्वेण सप्तमी ॥ अध्वन इति किम् । त्रयोदश्या अह्नि पर्व । अत्रैकार्थ्याभावे पूर्वेण नित्यं सप्तमी ॥ पौर्यो रुदत्सु बालेषु सीदतां गृहकर्मणाम् । एयुर्द्रष्टुं नृपं श्रेष्ठं नृष्विन्द्रमिव नाकिनाम् ॥ ६८ ॥ ६८. बालेषु रुदत्सु मातृविरहेण रुदतो बालकान् सीदतां गृहकर्मणामप्रवर्तमानान् रन्धनादीन् गृहव्यापारांश्वानादृत्य पौर्यो नृपं द्रष्टुं कौतुकादेयुः । यतो नाकिनां मध्य इन्द्रमिव नृषु मध्ये श्रेष्ठं रूपैश्वयादिगुणैरुत्कृष्टम् ॥ तदास्त्रिभ्यो वरा योधा रेजुर्यैः स्थानकस्थितैः । विद्धः क्रोशात्क्रोशयोर्वा म्रियेत क्षणयोः क्षणात् ॥ ६९॥ ६९. तदा यात्रोपक्रमकालेस्त्रिभ्योत्रं धनुरस्त्येषां तेभ्यो वरा धनुधरेषु श्रेष्ठा योधा रेजुः स्वावसरप्राप्तिसंभावनया तेजस्विनोभूवन् । यैर्योधैः स्थानकस्थितैरालीढादिस्थानावस्थितैः सद्भिः क्रोशाद्व्यूतात्क्रो १ ए युद्रष्टुं. २ सी नृपश्रे. १ सी यात्राप्र. २ सी त्र गम्ये'. ३ एफ भणां प्र. ४ एफ मध्ये श्रे. ५ एफू पा रे. ६ ए स्वाव. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy