________________
व्याश्रयमहाकाव्ये
[ मूलराज : ]
9
क्षणकस्य विघ्नाभावार्थमास्त निर्ध्वानं स्थिता । तथा भेर्या तूर्ये ध्वनन्त्यां वेणुरपि प्रेक्षणमपि क्षणादास्त निरर्थकत्वात् । यात्रार्थमुद्यते हि नृप उत्सवार्थ पर्यायेण प्रेक्षणकं तूर्यवादनं च स्यात् । तथा द्विजेष्वासीनेषु द्रव्यप्राप्तिरहितेषु सूता भट्टाः स्वं द्रव्यमापुर्लेभिरे । एषु च सूतेवासीनेषु द्विजाः स्वमापुः । यात्रार्थमुद्यतो हि राजा वीराश्च गुणोकीर्तकेभ्यो भट्टेभ्यो यशसे वेदपाठिभ्यो द्विजेभ्यश्च धर्मार्थ द्रव्यं
दति ॥
स्वे । अध्यद्विषु क्ष्माभुजाम् ॥ ईशे । अधि चौलुक्ये भृत्यानाम् । इत्यत्र "स्वेशेधिना " [ १०४ ] इति सप्तमी । अधिः स्वस्वामिसंबन्धं द्योतयति ॥
उपखार्या द्रोणः । इत्यत्र “उपेनाधिकिनि ” [ १०५ ] इति सप्तमी । उपोधिकाधिक संबन्धं द्योतयति ॥
बले मलत्यागाद् । इत्यत्र " यद्भावः " [१०६ ] इत्यादिना सप्तमी ॥ यत्र forniarrari द्विपर्ययो वा । यथा भेय ध्वनन्त्यां वेणुरास्त । द्विजेवासीनेषु स्वं सूता आपुः । यत्र च क्रियानहीणामकारकत्वं तद्विपर्ययो वा । यथा सूतेष्वासीनेषु द्विजाः स्वमापुः । वेणौ ध्वनति भेर्यास्त । तत्रापि भावो भावस्य लक्षणं भवतीत्यनेनैव सप्तमी । अत्र च वेण्यपेक्षयोदात्तध्वानत्वेन वाद्येषु मुख्यत्वेन च ध्वानक्रियात्वादेर्याः सूतापेक्षया तपश्चरणादिक्रियाप्रधानत्वेन दानक्रियात्वाद्विजानां च क्रियार्हता । भेर्यपेक्षया वेणोर्द्विजापेक्षया सूतानां च ध्वानदानक्रियानत्वेन क्रियानर्हता ॥
ग्रामो यो योजनान्यष्टौ योजनेषु दशस्वितः ।
पर्वेवाह्नि त्रयोदश्या यात्रां द्रष्टुं स आययौ ।। ६७ ॥
२५०
१ सी डी निध्वानं. २ सी डी वेणुर्वेणु. ३ एफ् 'भ्यो य'. ४ सी डी 'भ्यः ६. ५ बी ददाति ॥ ६ एफ् शे चौ. ७ बी 'धिकीनि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org