SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ २४८ द्याश्रयमहाकाव्ये [ मूलराजः] यकारि । शङ्कुर्हि च्छायामानानयनायातपवति समभूभागे स्थाप्यते । तेन च कालो मीयते । कालमानेन च लग्नं साध्यते । छायायां शङ्कुमादधुरित्यनेन यात्रालग्नदिनस्य रजोवगुण्डनाद्युत्पातरहितत्वेन श्रेष्ठत्वं सूचितम् ॥ खं प्रत्यसाधून्साधूश्चागणयन्वेत्रिणां पतिः। साधूनस्वामिनि तत्कार्ये निपुणांश्चाग्रतो व्यधात् ॥ ६३ ॥ ६३. वेत्रिणां पतिः प्रतीहारेशः खामिनि मूलराजे साधून्भक्तांस्तकार्ये स्वाम्यर्थे निपुणान्विधानचतुरानग्रतो मूलराजस्य पुरतो व्यधाचक्रे । कीडक्सन् । अतिस्वामिभक्तत्वात्स्वमात्मानं प्रत्यसाधूंनभक्तीन साधूंश्च भक्तानगणयन्नपरिभावयन् ॥ हसन्तो निपुणान्मातुः पितुः साधूश्च शस्त्रिणः। प्रतीशं निपुणास्तस्थुः श्रेण्या द्वारेङ्गरक्षकाः ॥ ६४॥ ६४. अङ्गरक्षकाः श्रेण्या पतया द्वारे तस्थुः । किंभूताः सन्तः । ईशं स्वामिनं प्रति निपुणा रक्षाचतुरी अत एव मातुर्निपुणान्मात्रैव निपुणान्मन्यमानान्पितुः साधूंश्च पित्रैव साधून्मन्यमानान्भटान्हसन्तस्तथा शस्त्रिणः प्रहरणहस्ताः ।। ज्योतिषेधीतिनः । इत्यत्र "व्याप्ये केनः" [९९] इति सप्तमी ॥ व्याप्य इति किम् । जन्माधीतिनो ज्योतिषे । अत्र जन्मनो मा भूत् ॥ छायायां शङ्कुमादधुः । इत्यत्र "तद्युक्ते हेतौ” [१००] इति सप्तमी ॥ १ एफ धूंश्च ग. १ सी डी °ने चौं. २ एफ मिनमू. ३ ए सी धून् भ. ४ एफ °क्तानग. ५ बी ॥ श्रे. ६ ए रात'. ७ डी °तिष्य धी. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy