________________
२४७
[ है० २.२.९८.] तृतीयः सर्गः।
प्रतिभूमिः श्रियः कीर्ती धर्म नीतेश्च साक्षिभिः । शुक्रे गुरोः प्रसूतैर्नु दायादैायि मत्रिभिः॥ ६१॥
६१. मत्रिभिरायि नृपान्तिक आगतम् । किंभूतैः । धर्मे धर्मस्य नीतेश्च न्यायस्य च साक्षिभिर्लग्नकैः । स्थानभूतैरित्यर्थः । तथा श्रियः कीतौ च प्रतिभूभिर्लग्नकैः स्थानैरित्यर्थः । तथा महामतित्वाच्छुक्रस्य गुरोर्ब्रहस्पतेर्वा प्रसूतैन्पत्यैरिव । यद्वा दायादैर्नु गोत्रिभिरिव ॥
अश्वेष्विभानां स्वामिनः । पत्तिष्वनसामीश्वराः । लक्ष्म्यां क्षितेरधिपतेः । शुक्रे गुरोर्दायादैः । धर्मे नीतेः साक्षिभिः । कीती श्रियः प्रतिभूमिः । शुक्रे गुरोः प्रसूतैः । इत्यत्र "स्वामी" [१८] इत्यादिनी वा सप्तमी । पक्षे शेषषष्ठी ॥
ज्योतिषेधीतिनो जन्म च्छायायां शङ्कुमादधुः । द्विष्यसाधु नृपे साधु लग्नं साधयितुं क्षणात् ॥ ६२ ॥ ६२. जन्म जन्मकालं प्राप्य जर्मन आरभ्येत्यर्थः । “कालाध्वनोाप्तौ” [२.२.४२] इति द्वितीया । ज्योतिषेधीतमेभिरधीतिनः । “इष्टादेः” [७.१.१६७] इतीन् । आजन्माधीतज्योतिषाः । अत्यन्तं ज्योतिःशास्त्रज्ञा इत्यर्थः । आधुः समभूभागेस्थापयन् । क । छायायाम् । छायानिमित्तं शकुं ज्योतिःशास्त्रोक्तसरलत्वादिगुणोपेतं सप्ताङ्गुलादिप्रमाणं कालमानकारणं काष्ठकीलकम् । किं कर्तुम् । लग्नं मेषादि क्षणाच्छीघ्रं साधयितुम् । कीदृक् । द्विषि शत्रावसाधु क्षयकारि नृपे मूलराजे साध्वभ्युद
१ डी तिष्यधी'. २ ए °साधुः नृ.
१ सी डी ॥ मंभिर्लग्नैः स्थानरि. २ ए की. श्रि. ३ सीना स. ४ एफ शेषे षष्ठी. ५ सी मका. ६ एफ °न्म आ. ७ डी तिथ्यधी. ८ सीडी त्यन्तज्यो . ९ एफ न् । कं छा . १० बी एफ रकं का.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org