SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ २४६ पाः ॥ व्याश्रयमहाकाव्ये [मूलराजः] एयुतत्रं । इत्यत्र “सप्तमी" [९५] इत्यादिना सप्तमी ॥ मासे द्विराशितारः । इत्यत्र "न वा" [९६] इत्यादिना वा सप्तमी ॥ पक्षे शेषषष्टी । मासो द्विरम्बुपाः॥ सौवस्तिकैः सन्मुहूर्त आयुक्तैस्तपसः श्रुते । मन्त्रे शान्तेश्च कुशलैश्चक्रे हस्त्यश्वपूजनम् ॥ ५९॥ ५९. सौवस्तिकैः पुरोहितैः सन्मुहूर्ते शुभवेलायां हस्त्यश्वपूजनं शान्तये मत्रोच्चारपूर्व पुष्पादिना चक्रे । किंभूतैः । तप॑सस्तपश्चरण आयुक्तैस्तत्परैः । एतेन नैष्ठिकत्वोक्तिः । तथा श्रुत आगम आयुक्तैः । एतेन ज्ञानितोक्तिः । अत एव मन्त्रे कुशलैनिपुणैरत एवं च शान्तेः शान्तिकर्मणि कुशलैश्च ।। __ मन्त्रे कुशलैः । श्रुत आयुक्तैः । इत्यत्र “कुशल" [९७] इत्यादिना वा सप्तमी ॥ पक्षे शेषषष्टी । शान्तेः कुशलैः । तपस आयुक्तैः ॥ स्वामिनोश्वेष्विभानां चानसां पत्तिषु चेश्वराः । लक्ष्म्यां क्षितेश्चाधिपतेः सद्योद्वारं सिषेविरे ॥ ६० ॥ ६०. अश्वेष्विभानां च स्वामिनोनसां रथानां पत्तिषु चेश्वराश्चतुरङ्गबलनायका लक्ष्म्यां राज्यश्रियः क्षितेश्चाधिपतेर्मूलराजस्य द्वारं सिंहद्वारं सद्यः सिषेविरे॥ १ ए लक्ष्यां हिते. १ एफ °त्र । सौ. २ एफ् शेषे षष्ठी. ३ सी डी शातथे. ४ एफ पस्त. ५ एफ नित्वोक्तिः ।. ६ बी व शा. ७ सी ना स. ८ एफ शेषे षष्ठी. ९ बी राजश्रियां क्षि. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy