SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ [है० २.२.९४.] तृतीयः सर्गः। २४५ आधारे । भूपस्यासितम् । कीर्तेर्हसितम् । श्रिया हसितम् । इत्यत्र "वा क्लीये" [१२] इति वा षष्ठी ॥ कामुकस्य श्रियां भूपा राज्ञ आज्ञा प्रपादुकाः। मुराष्ट्रां गमिनस्तस्थुस्तत्र कोटिं नु दायिनः ॥ ५७॥ ५७. राज्ञो मूलराजस्याज्ञा प्रपादुका आश्रयन्तो भूपास्तत्रासनसमीपे तस्थुः । कीदृशः सतः । श्रियां शत्रुलक्ष्मीणां कर्मणां कामुकस्येच्छोरत एव प्राहारिदैत्योच्छेदाय सुराष्ट्रां देशं गमिनो गन्तुकामस्य । उत्प्रेक्ष्यते । कोटिं नु दायिनो दीनारादिकोटिं धारयन्त इव । अधमर्णा हि श्रियां कामुकस्याज्ञां प्रपादुकाः सन्तः समीपे तिष्ठन्ति । जगदागामिनोरिष्टस्यावश्यं छेदिनो द्विजाः। एयुस्तत्राशितारो द्विासे मासो द्विरम्बुपाः ॥ ५८ ॥ ५८. तत्रासनसमीपे शान्तिकर्मणे द्विजा एयुः । किंभूताः । मासे द्विद्वौं वारावाशितारो भोक्तारस्तथा मासो मासस्य द्विरम्बुपा द्वौ वारौ जलपायिनस्तीव्रतपश्चारिण इत्यर्थः । अत एव जगलोकमागामिनो भाविनोपीत्यर्थः । अरिष्टस्याशुभस्यावश्यं छेदिनः ॥ आज्ञा प्रपादुकॊः । इत्यत्र 'अकमेरुकस्य" [१३] इति न षष्ठी ॥ अकमेरिति किम् । श्रियां कामुकस्य ॥ सुराष्ट्रां गमिनः । जगदागामिनः । कोटि दायिनः । इत्यत्र "एष्यदृणेनः" [९४] इति न षष्ठी ॥ एष्यहणेन इति किम् । अरिष्टस्यावश्यं छेदिनः । अत्र "णिन् चा वश्यकाधमण्ये”[५.४.३६] इत्यावश्यकेर्थे णिन् ॥ १बी ति घ. २ डी दृशाः सन्तः ।. ३ सी श्रियो श. ४ एफ क्ष्मीनां क. ५ ए प्रेक्षिते।. बी प्रेक्ष्यन्ते ।. सीडी प्रेक्षते ।. ६ सी मणा द्वि. ७ एफ रावशि. ८ ए कार इ. ९ ए °ति किम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy