SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ २४२ व्याश्रयमहाकाव्ये [ मूलराज : ] शृङ्गस्य त्याग एणानां मित्रस्येव दुरात्मभिः । इत्यत्र “द्विहेतोः " [ ८७ ] इत्यादिना कर्तरि षष्ठी वा ॥ अख्यणकस्येति किम् । बिभित्सा भेदिका चोक्षणां पयसामिव रोधसः ॥ स्तुत्यमान्यानुयानीयं गातव्यादेयसद्गुणः । नृणां देवैश्व स तदा राजा यात्रां प्रचक्रमे ।। ५१ । ५१. स राजा मूलराजेस्तदा शरत्काले यात्रां प्रयाणकं प्रचक्रमे प्रारेभे । कीदृक् । नृणां कर्तॄणां देवैश्च कर्तृभिस्तुत्याः साध्या मान्याः पूज्या अनुयानीया अनुसरणीयाँ गातव्या गेया आदेया ग्राह्याः सन्तः शोभना गुणाः शौर्यादयो यस्य सः ॥ ४ मृणां देवैश्व स्तुत्यमान्यानुयानीयगातव्यादेय । इत्यत्र " कृत्यस्य वा " [८] ก t इति कर्तरि वा षष्ठी ॥ अत्र च नित्यसापेक्षत्वात्समासः ॥ अथ यात्रोपक्रमं पटुिंशता श्लोकैर्वर्णयति । नेतव्यन्तं रिपुः पात्रा गामनेनेच्छुना यशः । पूरं पूरं नभो नादैर्दुन्दुभिः प्रोचिवान्विदम् ॥ ५२ ॥ ५२. नादैः कृत्वा नभः पूरं पूरं व्याप्यव्याप्य दुन्दुभिर्विजययात्राढक्केदं प्रोचिवान्नु । तदेवाह । अनेन मूलराजेन यश इच्छुनत एव गां भुवं पात्रा दुर्नयनिराकरणेन रक्षता सता रिपुंग्रहारिरन्तं क्षयं नेतव्यः ॥ १ए गीत '. १ एफ् स्यैव. २ सी डी 'जराजस्त ३ एफ् या गीत .. ४बी नीयागा. ५ एवेरि. ६ सीडी 'प्य दु. ७ ए 'भिविज ८ ए ना . ९ वी नयिनि १० एफ पुग्राहा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy