________________
[है० २.२.८६.] तृतीयः सर्गः ।
२४१ खं तुषाराणां नेतरि । तरलत्वस्य वीरुधां नेतरि । यद्वा दिशां नेतरि किञ्जल्कान् । तरलत्वस्य वीरुधां नेतरि । इत्यत्र “वैकत्र द्वयोः" [८५] इति द्वयोः कर्मणोरेकतरस्मिन्वा षष्टी । अन्यत्र पूर्वेण नित्यमेव ॥ श्रान्तानां शायिका । इत्यत्र "कर्तरि" [८६] इति षष्ठी ॥
कृतिः स्वराणां क्रौञ्चीभिर्विपञ्चीनामिवाबभौ ।
ऋतुमत्येव काशाल्याः कुसुमस्य प्रकाशनम् ॥ ४९ ॥ ४९.. यथा विपञ्चीनां वीणानां कीणां स्वराणां कर्मणां कृतिराबभौ । एवं क्रौञ्चीभिः कर्तीभिः । शरदि हि क्रौच्यो मधुरं कूजन्ति । तथा यथा ऋतुमत्या स्त्रिया का कुसुमस्यै स्त्रीधर्मस्य कर्मणः प्रकाशनं भवत्येवं काशाल्याः काशतरुपङ्क्तेः काः कुसुमस्य । जातावेकवचनम् । पुष्पाणां कर्मणां प्रकाशनमाविर्भावो बभूव ॥
शृङ्गस्य त्याग एणानां मित्रस्येव दुरात्मभिः। . बिभित्सा भेदिका चोक्ष्णां पयसामिव रोधसः॥५०॥ ५०. यथा दुरात्मभिर्दुर्जनैः कर्तृभिमित्रस्य कर्मणस्त्यागः स्यात्तथैणानां कर्तृणां शृङ्गस्य कर्मणस्त्यागोभूत् । शरदि हि रुरुशम्बरादिमृगाणां शृङ्गाणि पतन्ति । तथोक्ष्णां कर्तृणां रोधसस्तटस्य कर्मणो बिभित्सा भेत्तुमिच्छा भेदिकौं च विदारणं चाभूत् । पयसामिव यथा जलैवर्षासु रोधसो बिभित्सा भेदिका चाभूत् । शरदि हि वृषभा मत्ता नद्यादितटानि विलिखन्ति ॥ स्वराणां कृतिर्विपञ्चीनामिवक्रौञ्चीभिः। कुसुमस्य प्रकाशनं काशाल्या ऋतुमत्येव ।
१ एफरि घ°. २ सी कृतेरी . ३ सी डी °स्य जाता. ४ ए काचिवि. ५ ए नि वलि. ६ सी मस्य.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org