________________
२४०
व्याश्रयमहाकाव्ये
[ मूलराजः ]
1
ष्णुस्तां निद्रामत्यजत् । योम्भोधावपां पिबैर्जलानि पिवद्भिर्जलभृतैरित्यर्थः । अत एव साध्वत्यन्तं गर्जकैरब्दैर्मेधैर्हेतुभिर्निद्राम् । त्यक्ता पूर्वमनेन त्यक्तंपूर्वी न तथात्यक्तपूर्वी । धनप्रबलगर्जितैरपि यो वर्षासु जागा रेत्यर्थः ॥
1
शैलस्योपरि । लक्ष्म्या उपरिष्टात् । शैलस्य परस्तात् । शैलस्योवस्तात् । शैलस्याधः । ध्रुवस्य दक्षिणतः । प्सातुरुत्तरात् । इत्यत्र "रिरिष्टात् " [८२] इत्यादिना षष्टी ॥
वातापेः प्सातुः । यानस्य साधकः । अपां पिबैः । द्योर्यानस्य । दुर्गतेस्त्यागे । इत्यत्र " कर्मणि कृतः " [ ८३] इति षष्ठी ॥ क्रियाविशेषणस्य कर्मत्वोभावान्न षष्ठी । साधु गर्जकैः ॥ कृत इति किम् । तामत्यजत् निद्रामत्यक्तपूर्वी ॥
कैटभस्य द्विषन् मधुं द्विषन् । इत्यत्र " द्विषो वा तृशः " [८४] इति वा षष्ठी ॥
पवने खं तुषाराणां तरलत्वस्य वीरुधाम् ।
१
दिशां नेतरि किञ्जल्कान् श्रान्तानां शायिकाभवत् ॥ ४८ ॥
४८. श्रान्तानां शायिकाभवत् खेदापगमात्स्वापोभूत् । क सति । पवने । कीदृशे । खं तुषाराणी नेतरि शीकरानाकाशं प्रापयितरि । तथा तरलस्वस्य वीरुधां नेतैरि मृदुत्वालताञ्चलत्वं प्रापयति । तथ दिशां नेतरि किञ्जल्कान् । शरदि ह्यनियतदिको गुणत्रयोपेतो बातो
॥
१ सी डी ॥ खेदा.
१ एफ्
स्वाधः । २ बी वान्न. ३ एं पूर्वम् ॥• ५ एफ् तमृ ६ एफ या देशान्तरं ने.
Jain Education International
For Private & Personal Use Only
४ए णां तेनरि.
www.jainelibrary.org