SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ [है० २.२.८१.] तृतीयः सर्गः । २३९ पत्रवदाचरितम् । यतः शैलस्य गिरेरुपरि ऊर्ध्वदेशेधे ऊर्ध्वदेशापेक्षयाधस्तादवस्तात्पश्चिमदिग्विभागे परस्ताच्च पूर्वदिग्भागे चोपलक्षणत्वादक्षिणोत्तरभागयोरप्युत्पतिष्णुभिरुच्छलनिः । यथा दण्डोपरि स्थितं नीलवस्त्रेणोपर्यधश्चतुर्दिक्षु चावृतं नीलच्छत्रं राजादेरुपरि धृतं शोभातिशयाय स्यात्तथाद्रेः समन्तादुत्पतिष्णु शुकमण्डलं शरद इत्यर्थः । शरदि हि शुका बाहुल्येन स्युर्जातिप्रत्ययेन शैलाद्युच्च स्थानेषु निबसन्ति च ॥ ध्रुवस्याभाद्दक्षिणतो वातापेः प्सातुरुत्तरात् । पितॄणां दुर्गते त्यागेभ्वा घोर्यानस्य साधकः ॥ ४६ ॥ ४६. पितॄणामध्वा पितृदण्डः स्वर्गदण्डाख्यो वत्सेति नाम्ना ज्योतिषे प्रसिद्धभात् । कीदृक् । पितॄणामेव दुर्गतेस्तिर्यक्त्वादिकुगतेः श्रुतौ तु दन्दशूकत्वाख्यया प्रसिद्धायास्त्यागे सति द्योः स्वर्गस्य कर्मणो यद्यानं गमनं तस्य कर्मणः साधको निष्पादकः । अनेन हि मार्गेण कृत्वा पितरो दुर्गतिं परिहृत्य स्वर्ग यान्तीति प्रवादः । कामादित्याह । ध्रुवस्य दक्षिणतो दक्षिणस्यां दिशि तथा वातापेत्यस्य कर्मण: प्सातुर्भक्षकस्यागस्तेः । द्विजानुपद्रवन्वातापिर्दैत्यो ह्यगस्त्येन भक्षित इति प्रसिद्धिः । उत्तरादुत्तरस्यां दिशि । शरदि हि वत्सस्य व्योममध्यस्थस्य मुखं पूर्वस्यां पुच्छश्च पश्चिमायां स्यात् । यदुक्तम् । कन्यासंक्रान्त्यादित्रितयं पूर्वादौ वत्स इति । तत्रस्थ ध्रुवापेक्षया दक्षिणस्यामगस्त्यापेक्षया चोत्तरस्यां स्यात् ॥ निद्रां योत्यक्तपूर्व्यब्दैर्गर्जकैः साध्वपां पिवैः । स तामत्यजदम्भोधौ कैटभस्य मधुं द्विषन् ॥ ४७ ॥ ४७. सोम्भोधौ तिष्ठन् कैटभस्य मधुं द्विषन् कैटभमधुदैत्ययोः शत्रुर्वि २ एफ् दिग्विभागे ३ सी डी 'स्यां स्यात् ।• १ ए सी डी 'धस्ता. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy