SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ २३८ व्याश्रयमहाकाव्ये [मूलराजः] क्लान्ताः कृच्छ्रेण तापेन ज्योत्स्नायाः प्रागजानत । वीचिहादैस्ततोजानंश्चकोराः सरसां पयः॥४४॥ ४४. कृच्छ्रेण कष्टकारिणा तापेन सूर्यातपेन क्लान्ताः संतप्ताः सन्तश्वकोराः प्राक् सरसां पयो जलं स्वच्छत्वेन ज्योत्स्नाया अजानत ज्योत्स्नाबुद्ध्या प्रवृत्ता इत्यर्थः । प्रवृत्तिरत्र जानातेरर्थः । यद्वा ज्योत्स्नाप्रियत्वाज्ज्योत्स्नायामत्यन्तरक्ताश्चित्तभ्रान्त्या सरःपयो ज्योत्स्नारूपेण प्रत्यपद्यन्तेत्यर्थः । मिथ्याज्ञानवचनोत्र जानातिर्मिथ्याज्ञानं चाज्ञानमेव । ततः पश्चाद्वीचिह्रादैः कल्लोलध्वानैः कृत्वा सरसां पयः सरसां पय एवाजानन् । सरसां पय इत्यनूद्यत्वेन विधेयत्वेन च योज्यम् ॥ स्तोकात् स्पृशन् स्तोकेन स्पृशन् । अल्पात्स्पृशन् अल्पेन वान् । कृच्छ्रात्सेहे कृच्छ्रेण वीक्ष्यत्वात् । कतिपयाद्रीष्मः कतिपयेन प्रावृद । इत्यत्र "स्तोकाल्प" [७९] इत्यादिना वा पञ्चमी ॥ असत्त्व इति किम् । स्तोकैर्जितैः । अल्पैर्मेधैः । कृच्छ्रेण तापेन ॥ ज्योत्स्नाया अजानत । इत्यत्र "अज्ञाने ज्ञः षष्ठी" [८.] इति षष्टी ॥ अज्ञान इति किम् । हादैः पयोजानन् ॥ सरसां पयः । इत्यन्न “शेषे” [८१] इति षष्ठी ॥ शैलस्योपर्यधोवस्तात्परस्तादुत्पतिष्णुभिः । उपरिष्टाच्छरल्लक्षम्या नीलच्छत्रायितं शुकैः ॥४५॥ ४५. शुकैः शरलक्ष्म्या उपरिष्टादूर्ध्वदेशे नीलच्छत्रायितं नीलात१ सी डी लक्ष्मीनी. लाया. ४ ए एफ न् १ ए वृत्त्याइ. २ सी तेर्थः ।। ३ सी अल्पे'. ५ ए न् । अकृ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy