SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ है० २.२.८९.] तृतीयः सर्गः। २४३ २४३ पवमानो जगत्तन्वन्स्वरं बिभ्राणमुच्चताम् । चक्राणो मङ्गलं शङ्खश्छन्दोधीयन्निव द्विजः॥ ५३॥ ५३. शङ्खो विजयकम्बुर्मङ्गलं राजादीनां चक्राणश्चक्रे । कीहक्सन् । उच्चतामुदात्ततां बिभ्राणं स्वरं तन्वन् । तथा जगल्लोकं पवमानो मङ्गल्योदात्तस्वरत्वात्पवित्रयन् । तथा छन्दो वेदमधीयन्नकृच्छेण पठन्नत एवोच्चतां बिभ्राणं स्वरं तन्वन्नत एव च जगत्पवमानः सन् द्विजो मङ्गलं चक्रे । यात्राकाले हि माङ्गल्यार्थं शङ्खो वाद्यते द्विजाश्च वेदमुच्चारयन्ति॥ ढक्काभिश्चक्रिभिर्ध्वानं दुःसहं दिग्गजैरपि । सोत्रभृत्कारको यात्रां सुज्ञानो वज्रिणाप्यभूत् ॥ ५४ ॥ ५४. दिग्गजैरपि दुःसहं सोढुमशक्यं ध्वानं चक्रिभिः करणशीलाभिढक्काभिर्विजयभेरीभिः कृत्वा स मूलराजो वञिणापि सुज्ञान: सुखेन ज्ञेयोभूत् । कीडक्सन् । यात्रां कारकोस्त्रभृद्यात्रां करिष्यामीति खड्गादिशस्त्रभृत् । “क्रियायाम्" [५.३.१३] इत्यादिना णकच् । यात्रां चिकीपोर्मूलराजस्य युद्धोचितास्त्रग्रहणं ढक्काभिर्वाद्यमानाभिरिन्द्रेणापि ज्ञातमित्यर्थः । राजा हि यात्रां चिकीर्षुर्यदा युद्धोचितास्रग्रहणमुहूर्त साधयति तदा विशेषतो विजयढका वाद्यन्ते ॥ नेतव्योन्तं रिपुरनेन । इत्यत्र "नोभयोर्हेतोः [८९] इति कर्मकोंर्न षष्ठी ॥ तृन् । पात्रा गाम् । उदन्त । यश इच्छुना ॥ अव्यय। नभः पूरंपूरम् ॥ कसु । इदं प्रोचिवान् ॥ आनेत्युत्सृष्टानुबन्धनिर्देशात्कानशानानशां ग्रहणम् । कान । मङ्गलं चक्राणः॥ शान । जगत्पवमानः ॥ आनश् । उच्चतां बिभ्राणम् ॥ अतृश । छन्दोधीयन् ॥ शतृ । स्वरं तत्वन् ॥ डि । ध्वानं चक्रिभिः ॥ णकच् । १ एफ नो माङ्ग. २ सी दन्तः य. ३ सी व्ययं न. ४ ए °नसां . ५ एफ शानः । . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy