________________
[ है ० २.२.७४.]
तृतीयः सर्गः ।
गम्येपि पश्चिमे देशे ग्रामात्प्राच्यां ययुर्जनाः । महानवम्या अपरेह्नि कोशात्सीम लङ्घितुम् ॥ ३९ ॥ ३९. महानवम्या आश्विनश्वेतनवम्यां अपरेनन्तरेह्नि दिने विजयदशम्यां ग्रामादुपलक्षणत्वात्पुरादेरपि सकाशात्माच्यां पूर्वदिशि जना ययुः । वसति । ग्रामात्सकाशात्पश्चिमे देशे पश्चिमदिग्विभागे गम्येपि नदीपर्वताद्यभावेन गन्तुं शक्येपि पश्चिमदेशं मुक्त्वेत्यर्थः । किं कर्तुं ययुः । क्रोशाद्द्रव्यूतात्परेण सीम । कीबेपि सीमन् शब्दं हलायुध भारैवी मन्येते । ग्रामादिसीमभूमिं लङ्घितुं शकुनमार्गणाभिप्रायेण ॥
विजयदशम्यां हि अस्तमयदिक्त्वेन लोके सामान्येनाप्रशस्ततया प्रसिद्धत्वात्पश्चिमदिशं वर्जयित्वोदय दिक्त्वेन लोके सर्वदिक्षु मध्ये सामान्येन मङ्गल्यदिक्तया प्रसिद्धत्वात्प्रायः पूर्वस्यां क्रोशात्परतः सकलवर्षशुभाशुभसूचकशकुनान्वेषणाय लोका यान्ति । तस्य च गमनस्य लोके सीमलङ्घनमिति संज्ञा रूढा । यद्वा ग्रामादित्युक्तत्या जना ग्राम्या व्यज्यन्ते । ते विजयदशम्यां क्रोशात्परेण सीम लङ्घितुं ग्रामात्पश्चिमे देशे गम्येपि विजयदशम्यां हि प्रातरेव लोका: सीम लङ्घितुं यान्ति । प्रातश्च पश्चिमदिशि सूर्यस्य पृष्ठवर्तित्वाद्यात्रा कर्तुमुचिता । यदुक्तम् ||
यामयुग्मेषु रात्र्यन्तयामात्पूर्वादिगो रविः ।
यात्रास्मिन्दक्षिणे वामे प्रवेश: पृष्ठगे द्वयमिति ॥
गन्तुमर्हेपि प्राम्यत्वाद्वामात्प्राच्यां ययुः । प्राम्या हि मूर्खत्वात्तथाविधगम्यागम्यदिक्परिज्ञाना कौशलेात्सामान्येन लोकव्यवहारे पश्चिमा न तथा प्रशस्या यथा पूर्वेति पश्चिमां गमनाहमपि वर्जयित्वा पूर्वामेव यान्ति ॥
१ या प. २ सी डी रे अन्त ४ए शब्दमा ५ सी डी 'पर: स. ८ सी डी 'यदि'. ९ डी 'ला: सामा
Jain Education International
६
२३५
एफ्
३ ए सी डी रती म. व्यञ्ज्यन्ते । • ७ सी दिशो र.
For Private & Personal Use Only
www.jainelibrary.org