________________
२३६
घ्याश्रयमहाकाव्ये [मूलराजः] आरात्तीराबहिर्नीराच्छीतेभ्य इतरै रवेः ।
अप्युप्रैस्तप्यमानोस्थाहणाबद्धो नु कच्छपः ॥ ४०॥ ४०. कच्छपः कमठो जातावेकवचनम् । शीतेभ्य इतरैरुष्णै रवेरुस्त्रैः किरणैस्तप्यमानोपि दह्यमानोप्यारात्तीरान्नद्यादितटसमीपे नीरावहिश्वास्थात्तस्थौ । उत्प्रेक्ष्यते । ऋणाद्धो नु देयेन हेतुना निगडित इव । ऋणिको हि ऋणादुत्तमर्णेन बद्धो रवरुष्णैः कैरैस्तप्यमानो नद्यादितटे तिष्ठति बद्धत्वान्न तु जलमध्ये प्रविशति । शरदि हि कच्छपा जातिस्वभावेन नद्यादितटेषु बाहुल्येन विचरन्ति । उक्तं च ।
अपङ्किलतटावट: शफरफाण्टफालोज्ज्वलः पतत्कुररकातरभ्रमभ्रमीनार्भकः । लुठत्कमठसैकतश्चलबकोटवाचाटितः
सरित्सलिलसंचयः शरदि मेदुरः सीदति ॥ प्रभृत्यर्थ । वर्षात्ययात्प्रभृति । अब्जोद्मादारभ्य ॥ अन्यार्थ । अन्यः क्वणात् । भिन्नो नादात् । ग्रामात्याच्याम् । बहिनीरात् । आराँत्तीरात् । शीतेभ्य इतरैः । इत्यत्र "प्रभृत्यन्य " [७५] इत्यादिना पञ्चमी ॥ दिशि दृष्टाः शब्दा दिक्शब्दा इति देशकालवृत्तिनापि स्यात् । ग्रामात्पश्चिमे देशे। नवम्या अपरेह्नि ॥ तथा गम्यमानेनापि दिक्शब्देन स्यात् । क्रोशास्सीम । परेणेति गम्यते ॥ ऋणाद्वद्धः । इत्यत्र “ऋणाद्धेतोः" [७६] इति पञ्चमी ॥
सौरभादनुरागेण मुदा बद्धोलिरभ्रमत् । कुमुदस्यान्तिकेजाच दूरे नीपस्य केतकात् ॥ ४१ ॥
१ सी डी टनिष्ठस. २ एफ हिश्च स्था'. ३ एफ करैः स्त'. ४ एफ 'त्यर्थः । व. ५ सी डी त् । शी. ६ ए रानीरा. ७ सी ति गम्य'.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org