SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ २३४ व्याश्रयमहाकाव्ये [ मूलराजः] ३७. प्रासादामाद्देवगृहशिखरमारुह्य केकी मयूरो ननर्त । किं कृत्वा । उपाध्यायादधीत्येव नियमपूर्व नृत्तविद्यां गृहीत्वेव । वाथ वा नटस्य श्रुत्वेव । इवोत्रापि योज्यः । द्रव्यादिदानेन नृत्तविद्यामाकण्येव । यथोपाध्यायान्नियमपूर्वकं नटाद्वा द्रव्यादिदानेनात्तैनृत्तविद्यो नृत्तज्ञत्वानिपुणं नृत्यति तथा जातिस्वभावेन केकी चतुरं ननर्तेत्यर्थः । अत एवैनं केकिनं पौर्य आसनादासन उपविश्य प्रेक्षन्त कौतुकात्प्रकर्षेणापश्यन् । शरद्यपि मयूरा मत्ताः सन्तो जातिस्वभावेन प्रासादाद्युच्चस्थानमारुह्य नृत्यन्ति । यदुक्तम् । प्रोन्मादयन्ती विमदान्मयूरान्प्रगल्भयन्ती कुररद्विरेफान् । शरत्समभ्येति विकास्य पद्मानुन्मीलयन्ती कुमुदोत्पलानि ।। उपाध्यायादधीत्य । इत्यत्र "आख्यातरि०" [७३] इत्यादिना पञ्चमी ॥ आ. ख्यातरीति किम् । नटस्य श्रुत्वा ॥ प्रासादाप्राशनत । आसनात्प्रेक्षन्त । इत्यत्र “गम्ययपः" [७४] इत्यादिना पञ्चमी॥ वर्षात्ययात्प्रभृत्यलोद्मादारभ्य चावभौ । अन्यो वीणाकणाद्भिन्नो वेणुनादादलिस्वनः॥ ३८ ॥ ३८. वर्षात्ययाद्वर्षाकालातिकमात्प्रभृत्यब्जोद्गमात्कमलवनो दाँदारभ्य चालिखन आबभौ । यतो वीणाकणादन्योन्यादृशोतिमधुर इत्यर्थः । तथा वेणुनादाद्भिन्नः । शरदि हि पद्मखण्डविकाशे मधुपानोन्मत्तानां भृङ्गाणां ध्वनिरतिमधुरः स्यात् ॥ १ सी डी त्तवि. २ ए नृत्तति. ३ ए प्रेक्ष्य कौ. ४ एफ दायाच. ५ ए बी सी एफ कुरुर. ६ बी काश्य प. ७ सीडी दार'. ८ सी डी दि प. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy