SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ है० २.२.७२.] तृतीयः सर्गः। २३३ . सहस्राय परिक्रीताः अयुतेन परिक्रीताः । इत्यत्र "परिक्रयणे" [६७] इति वा चतुर्थी ॥ श्रियै शक्ताः । अलं केल्यै । वषडिन्द्राय । नमो देवेभ्यः । प्रजाभ्यः स्वस्ति । स्वाहा हविर्भुजे । स्वधा पितृभ्यः । इत्यत्र "शक्तार्थ' [६८] इत्यादिना चतुर्थी ॥ समुद्रशयनाद्ययौ । इत्यत्र "पञ्चमी' [६९] इत्यादिना पञ्चमी ॥ आ सिन्धोः । इत्यत्र "औडावधौ" [७०] इति पञ्चमी ॥ अश्मरात्परि । उपरादप । इत्यन्न "परि" [१] इत्यादिना पञ्चमी । प्रति द्विपमदामोदाद्गन्धं सप्तच्छदान्यधुः। शेफालीभ्यो ददुलास्य प्रति गन्धाच मारुताः ॥३६॥ ३६. सप्तच्छदानि सप्तपर्णतरुपुष्पाणि द्विपमदामोदात्प्रति हस्तिमदसौरभ्यस्य तुल्यं गन्धमधुरधारयन् । एतेन शरदि द्विपा माद्यन्ति सप्तच्छदाश्च द्विपमदामोदतुल्यं पुष्पन्तीत्युक्तम् । तथा मारुताश्च गन्धात्प्रति गन्धस्य प्रतिदानभूतं लास्यं नृत्तं शेफालीभ्यः शेफालीलतापुष्पेभ्यो ददुः । शेफालीनां गन्धं गृहीत्वा लास्यं ददुरित्यर्थः । अन्येपि नाट्योपाध्याया गन्धद्रव्यादि गृहीत्वा नर्तकीनां लास्यं ददति ॥ द्विपमदामोदात्प्रति । गन्धात्प्रति । इत्यत्र “यतः प्रति" [७२] इत्यादिना पञ्चमी । प्रतिशब्दाद्वितीया म् ॥ उपाध्यायादधीत्येव केकी श्रुत्वा नटस्य वा । प्रासादाग्राननतैनं पौर्यः प्रेक्षन्त चासनात् ॥ ३७॥ १ एफन्त वास. ४ एफ नृत्यं शे'. १ए हाय. २ए आज्ञाव. ३ ए बी पुष्फन्ती'. ५ सी डी ना पञ्च. ६ बी ति । मो'. ३० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy