SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ २३२ ब्याश्रयमहाकाव्ये [मूलराजः] ३३. केल्यै क्रीडायायलं समर्थास्तथा श्रियै शोभायै प्रस्तावाच्छरद एव शक्ता हंसास्तस्याः शरदो यद्यस्मादन्वयुरनुगमनं चक्रुस्तत्कि शरदा का सहस्राय रूपकादिशशतेनायुतेन वा रूपकादिदशसहरुया वा कृत्वा परिक्रीता नियतकालं स्वीकृताः। ये हि येन परिक्रीताः स्युस्ते सेवकास्तस्य स्वामिनः केल्यायलं नर्मणे शक्ताः श्रियै शोभायै शक्ताश्च सन्तोनुगच्छन्ति ॥ स्वधा पितृभ्य इन्द्राय वषट् स्वाहा हविर्भुजे । नमो देवेभ्य इत्यखिग्वाचः सस्यश्रियाफलन् ॥ ३४॥ ३४, ऋत्विग्वाचो मेघवृष्टिसस्यनिष्पत्त्याद्यर्थं पूर्वकृतकारीरीष्ट्यादीनां प्रस्तावे यायजूकानां मन्त्राक्षरोचारणानि सस्यश्रिया प्रचुरधान्यनिष्पत्त्याफलन् सार्थका आसन् । का वाच इत्याह । पितृभ्यः स्वधा हविर्दानमस्तु । तथेन्द्राय वषट् हविनिमस्तु । तथा हविर्भुजे. ग्निदेवतायै स्वाहा हविर्दानमस्तु । तथा देवेभ्यो नमोस्त्विति ॥ प्रजाभ्यः स्वस्त्यभून्निद्रा समुद्रशयनाद्ययौ । आ सिन्धोः शावलान्यासनश्मरात्पर्यपोषरात् ॥ ३५ ॥ ३५. प्रजाभ्यः स्वस्ति सस्यादिसंपत्त्या लोकस्य क्षेममभूत् । तथा समुद्रशयनाद्विष्णोनिद्रा ययौ । कार्तिकैकादश्यां हि विष्णुर्निद्रां जहातीति रूढिः । तथा आ सिन्धोः समुद्रं मर्यादीकृत्य नदीमभिव्याप्य वा शाद्वलानि सहरितभूखण्डान्युपचाराद्धरितानि चासन् । कथम् । अश्मरात्परि अश्मवन्तं देशं वर्जयित्वा तथोषरादपं रिरिणं (इरिण) देश वर्जयित्वा ।। १ बी शाडला. २ ए पणात् ।। १ एफ °मिनं कल्यायलं निर्मणे. २ सी डी रीष्टया . ३ वी शाडला. ४ सी °न्तं त दे. डीन्तं तं दे'. ५ एफ परिणं. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy