________________
२३० घ्याश्रयमहाकाव्ये
[मूलराजः] श्रेयश्चिरायुः कुशलं स्तात्कार्य सिद्धिमेतु च ।
पुत्रेभ्यश्च स्नुषाणां चेत्यूचुर्वलिमहे स्त्रियः ॥ ३२ ॥ ३२. बलिमहे बलिराज्यदिने कार्तिकश्वेतप्रतिपद्दिने स्त्रिय ऊचुः । किमित्याह । पुत्रेभ्यः स्नुषाणां च वधूटीनां च श्रेयो धनाद्यर्द्धिलाभश्चिरायश्चिरजीवितं कुशलं च विपदभावश्च स्तात् कार्य सिद्धिमेतु चेत्याशीर्वाक्यानि ॥
बलिमहो हि कार्तिककृष्णपञ्चदशीरात्रौ शुक्लप्रतिपदिने च स्यात् । तत्र च लोका यथाशक्ति सुवेषाः सुचेष्टा: प्रमुदितास्ताम्बूलाद्यास्वादनपरा भगिन्यादिस्त्रीः प्रणमन्ति । ताश्च चन्दनवर्धनादिपूर्व श्रेयः स्तादित्याशीर्वादं ददते । यतः कार्तिकश्वेतप्रतिपदि यच्छुभमितरद्वा चेश्यते तच्चेष्टया सकलं वर्ष याति । यदुक्तं भविष्यत्पुराणे ।
पुरा वामनरूपेण याचयित्वा धरामिमाम् । बलिं यज्ञे हरिः सर्वं क्रान्तवान्विक्रमैत्रिभिः ॥ १ ॥ इन्द्राय दत्तवान् राज्यं बलिं पातालवासिनम् । कृत्वा दैत्यपतेर्दत्तमहोरात्रं पुनर्नुप ॥ २ ॥ पञ्चदश्यां निशा ह्येका कृष्णपक्षस्य कार्तिके । एकमतनदिनं बलिराज्यति चिह्नितम् ।। ३ ।। कार्तिक कृष्णपक्षस्य पञ्चदश्यां निशागमे । यथेष्टचेष्टं दैत्यानां राज्यं तेषां महीतले ॥ ४ ॥ लोकश्चापि गृहस्यान्तः शय्यायां शुक्लतण्डुलैः । संस्थाप्य बलिराजानं फलैः पुष्पैश्च पूजयेत् ॥ ५ ॥ बलिमुद्दिश्य दीयन्ते दानानि कुरुनन्दन ।
यानि तान्यक्षयाण्याहुर्मयैवं संप्रदर्शितम् ॥६॥ १ ए भाविश्च. २ ए सी सिद्धमे'. ३ ए तुश्चेत्या. ४ ए °य स्ता. ५ एफ नृपः ॥. ६ ए थेष्टं चे. ७ ए सी डी तन्दुलैः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org