________________
[ है ० २.२.६५ ]
तृतीयः सर्गः ।
२२९
न स्वं शुनेमन्यन्त न स्वं सममन्यन्त । इत्यत्र " मन्यस्य " [ ६४ ] इत्यादिना वा चतुर्थी ॥ अनावादिभ्य इति किम् । न वृषं नावमन्नं शुकं शृगाल काकं वा मेनिरे ॥ कुत्स्यतेनेनेति करणाश्रयणं किम् । न स्वं शुने मेनिरे इत्यत्र स्वशब्दान्न स्यात् ॥ अतिग्रहणं किम् । महिषं तृणं मेनिरे । अत्र नञ्प्रयोगाभावे साम्यमानं प्रतीयते न त्वतिकुत्सां ॥ कुत्सामात्रेपीच्छन्त्येके । महिषं शुने मेनिरे ॥ न स्वं तृणस्य मन्तेति कुद्योगे परत्वात्पष्ठी । चतुर्थ्यपीति कश्चित् । न स्वं बुसाय मन्ता । न स्वं तृणस्य मन्ता ॥
I
पृथ्व्यै हितः द्योर्हितः । पृथ्व्यै सुखः द्योः सुखः । इत्यत्र “हित सुखाभ्याम् ” [ ६५ ] इति वा चतुर्थी ॥
शं पथ्यं भद्रमायुष्यं स्तात्क्षेमोर्थच सिध्यतु । राज्ञः प्रजाभ्य इत्यूचेगस्तिरुद्यन्धनखनैः ।। ३१ ।।
३१. अगस्तिरगस्त्यैर्षिरुद्यन्सन्घनस्वनैर्मेघगर्जितैः कृत्वोच इव । वोवसीयते । किमित्याह । राज्ञः प्रजाभ्यश्च शं सुखं पथ्यं हितं भद्रं धनधान्यादिसंपल्लाभ आयुः प्रयोजनमस्य "स्वर्गस्वस्ति” [६.४.१२२] इत्यादिना ये आयुष्यमायुर्वृद्धिहेतुर्वस्तु क्षेमो विपदभावश्च स्तादर्थश्च सिध्यतु कार्य निष्पद्यतां चेति । शरदि ह्यगस्तिरुदेति घनगर्जितानि च स्युरित्येवमुत्प्रेक्षा । मुनिद्यंस्त पोज्ञानादिविशेषेणोदीयमानो राजादिसमीपं गच्छन् घनस्वनैः सान्द्रध्वानैः कृत्वा राज्ञः प्रजाभ्यश्च शमियाद्याशीर्वादं वक्ति ||
५
१ एफ् सामत्रे २ एफ् तः पृ. ३ सी स्त्य ऋषिरु ४ एफू क्षेम वि. ५ सी प्रेक्ष्य मु. डी 'प्रेक्ष्यते मु ं. ६ ए ध्वानै कृ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org